This page has not been fully proofread.

528
 
मधुराविजये
 
यत इत्यर्थः । तथाविधानि । तानि । मञ्जु शीघ्रम् सद्य एवेत्यर्थः ।
'द्राङ्मङ्क्षसपदि द्रुते' इत्यमरः । स्वशरीरे निजदेह एव यथा
न्यमाञ्जुः न्यमज्जन् । निपूर्वात् जेर्लुङ् । तथा तेन प्रकारेण शरीरे
ध्वेव शिरांसि लीनानि न तु पृथक्तया दृश्यमानानि यथा भवेयु
स्तथेत्यर्थः । प्राहृत अविध्यत । महावेगेन दृढमाहतवानित्यर्थः । प्रत
र्वात् हन्तेः कर्मणि लुङ् । शिरस्तु शिरस्त्राणि वृतानि राजभिः ।
तान्यपि विभिद्य कम्पराजप्रहारो भृशं व्यथां जनयासास तच्छीर्षे
ष्विति महाबलवत्त्वं कम्पराजे प्रकथ्यते । शिरसि गाढप्रहारेण नय
नानां बहिर्गतत्वं च प्रसिद्धम् - " निजघ्नुस्सहसाप्लुत्य यातुधानान्
प्लवङ्गमाः । शैलश्शृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः । चेरुः पेतुश्च
नेदुश्च तत्र राक्षसपुङ्गवाः" इति रामायणे ।
 
"
 
S [ तस्मि ] न्निति व्यापृतहेतिजाते
परापतन्त्यः परिपन्थिसेनाः ।
कल्पक्षयोचिषि हव्यवाहे
महाम्बुधेरोघ इवाशु ने ( शुः )
 
21
 

 
"
 
तस्मिन्निति ॥ इति इत्थम् उक्तप्रकारेण । तस्मिन् राज्ञि ।
व्यावृतम् चोदितम् प्रयुक्तम् हेतीनाम् आयुधानाम् । ज्वालानामिति
च गम्यते । 'रवेरचिश्च शस्त्रं च वह्निज्वाला च
 
हेतयः
 
इत्य
 
मरः । तेषाम् जातम् समूहः येन तथोक्तः । तथाविधे सति । परा
पतन्त्यः परावर्तमानाः
 
पराङ्मुखा
 
भवन्त्यः
 
परिपन्थिसेनाः
 
शत्रु
 
सैन्यानि । कर्त्यः । कल्पक्षयः कल्पान्तः प्रलयकालः तस्मिन् उद्गताः
ऊर्ध्वमुखं ज्वलन्त्यः अचिषः ज्वालाः यस्य तस्मिन् । भृशं प्रज्वल
ज्जालायुते इत्यर्थ: । हव्यवाहे अग्नौ । महाम्बुधे अतिवेलं प्रवृत्तस्य
 
ऽश्लोकस्यास्य
 
परस्तात् श्लोकदशकं लेखितुं पर्याप्ते द्वे तालपत्रे शुन्ये वर्तेते ॥