This page has not been fully proofread.

नवमसर्गः
 
छुरिका असिपुत्रिका । 'स्याच्छस्त्री चासिपुत्त्री च च्छुरिका चासि
धेनुका' इत्यमरः । तस्याः मुखम् अग्रभागः । तेन वक्षस्सु हृदय
स्थलेषु तदवच्छेदेनेत्यर्थः । युधि युद्धे । रंहस्स्विनः अतिशयितवेगवतः
'अस्मायामेधात्रज '
रंहस्तरसी तु रयस्स्यदः । जवः' इत्यमरः ।
इति विनिः । स्वस्य आत्मनः अभिमुखान् सम्मुखान् युद्धाय सन्नद्धा
भूत्वाऽग्रत स्थितानित्यर्थः । प्रसह्य हठात् अनालोचितलक्ष्यपात
मित्यर्थः । 'तरक्षुः मृगादनः क्षुद्रशार्दूलः । 'तरक्षुस्तु मृगादनः' इत्यमरः ।
नखाग्रेण कररुहाग्रभागैः मृगान् हरिणानिव वक्षस्सु हृदयेषु स्वावयवे
ष्वित्यर्थ: । क्षुण्णान् भिन्नान् विदारितान् " क्षुदिर् संप्रेषणे' क्तः ।
'रदाभ्या' मिति नः । णः । अकार्षीत् अकरोत् । वक्षांसि छुरि
कया विददार लाघवातिशयेनेत्यर्थः । शुराग्रगान् युद्धाय सन्नद्धान्
प्रतियोधाननालक्षितलक्ष्यपातं स्वासिपुत्त्रिकया श्रममन्तरैव तद्वक्षांसि
बिभेद स इति तस्य कृतहस्तता वीर्यातिशयश्च प्रस्तूयते । वाक्यर्थो
पमेयम् ॥
 
"
 
शूरस्तथा प्राहृत मुद्गरेण
शिरस्त्रवन्ति द्विषतां शिरांसि ।
यथा विनिर्यन्नयनानि तानि
मञ्जु न्यमाङ्ङ्क्षस्स्वशरीर एव ॥
 
527
 
20 11
 
शूर इति ॥ शूर: वीर: प्रदर्शितवीर्यसार इत्यर्थः । मुद्गरेण
तदाख्येनायुधविशेषेण दुघणेन 'द्रुघणे मुद्गरघनौ ' इत्यमरः । (तेन )
शिरस्त्रम् शीर्षरक्षणम् शीर्षण्यम् । तानि सन्ति येष्विति मतुप् ।
'अथ शीर्षकम शीर्षण्यं च शिरस्त्रे इत्यमरः । द्विषताम् शत्रूणाम्
शिरांसि मस्तकानि 1 कर्म । विनिर्यन्ति बहिर्विनिर्गच्छन्ति नयनानि
नेत्राणि येषू तथोक्तानि । शिरस्सु कृतस्य प्रहारस्य गाढत्वेन नय
नानां बहिनिस्सरणं जातमिति आघातवेग़ातिशयो बलवत्त्वं च प्रस्तू
 
"