This page has not been fully proofread.

524
 
ज्ञातुमित्यर्थः । ईषत्करा:
 
सुलभाः ।
 
ईपद्द स्सु ' प्विति खल् । बहुभि
स्साधनैर्बहुकृत्वो बहुधा यथाकथमपि भेदनीयानि लक्ष्याणि सिद्ध
हस्तोऽय मे कधैवामोघेन स्वप्रहारेणैकेन भेदयति क्षणे । स्वप्रहारेणै
केनैव हस्तिनः कवचं भेदयति । तेनैव हस्तिनं च द्विधा करोति ।
तेनैव हस्तिपकस्य कवचं विदलयति । तेनैव तं च द्विधा करोति ।
अतएवैतस्य लक्ष्यसिद्धिलघवातिशयश्च नैवेतरजनसाधाणाविति प्रत्य
भिज्ञातुमस्य युद्धमार्गान् श्रममन्तरैव शक्यत इति नायकस्य वीर्याति
शयः प्रस्तूयते । पराक्रमसमृद्धिरत्र वर्णितेत्युदात्तोऽलङ्कारः । " समृद्धि
मद्वस्तुवर्णनमुदात्त " इति तल्लक्षणात् । करिदेहाः तद्वर्म, हस्ति
पकदेहाः तद्वर्म, चैककाल एव तथा कृतमिति ध्वननात्सहोक्तिर्ध्वन्यत
इत्यलङ्कारेणालङ्कारध्वनिः ॥
 
मधुराविजये
 
(
 
कुम्भेषु भिन्दन्नृपति द्विपेन्द्रान्
मुक्ताफ़लैशर्करिलान्तराभिः ।
प्रावर्तयद्रक्ततरङ्गिणीभिः
परश्शतास्संयति ताम्रपर्णीः ॥
 
17 11
 
कुम्भेष्विति ॥ नृपतिः राजा
 
कम्पनः । कुम्भेषु शिरः
 
पिण्डेषु । अवयवावयविभावे सप्तमी । कुम्भाऽवच्छेदेनेत्यर्थः । द्विपे
न्द्रान् गजराजान् । भिन्दन् स्फोटयन् तेषां कुम्भानां भेत्ता सन्नि
त्यर्थः । 'नलोकाव्य येति षष्ठीप्रतिषेधात् द्विपेन्द्रानिति द्वितीया ।
गजकुम्भान् विदार्येति यावत् । मुक्ताफलैः मौक्तिकैः ।
शर्कराः उपलाः सन्ति एष्विति विग्रहः ।
 
उपलावन्ति
 
खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायां शर्करायुक्तदेशे शकलेऽपि
 
च' इति हैम' । 'देशे लुबिलचौ च
 
"
 
इतीलच् ।
 
तथाविधानि
 
अन्तराणि अध: प्रदेशा: यासु ताभिः । रक्ततरङ्गिणीभिः असृङ्दी भि
 
शर्करिला
 
"
 
शर्करा