This page has not been fully proofread.

522
 
मधुराविजये
 
राजानः प्रति
 
रन्तः वीरविहारं कुर्वन्तः । संचरन्तश्च । दर्पोद्धता: दर्पेण गर्वेण उद्धताः
अविनीताः अतिशयितदर्पा इत्यर्थ: । जगत्तृणाय मन्वानाः सोत्साहा
इति यावत् । मदोद्धता इति च । केचन कतिचन राजसिंहाः राजान
एव सिंहा: मृगेन्द्राः । कर्तारः । प्रत्यथिनाम् शत्रूणाम् ।
' अभिघाति
पराराति प्रत्यथिपरिपन्थिन: ' इत्यमरः । पार्थिवाः
योद्धार इत्यर्थः । त एव कुञ्जराः गजाः तेषाम् शिरांसि मस्त
कानि (कुम्भस्थलानीति च ।) नखरैः आयुधविशेषैः तैरेव कराग्रैः
नखैः अभिन्दन् व्यदलयन् । महान्तो मृगराजा इव वने शूरा राज
वतंसाः युद्धभूमावप्रतिहतगमनेन वीरविहारं कुर्वन्तो गजानिव कांश्चन राज्ञो
नखरायुवैश्शिरस्सु नखैः कुम्भस्थलेष्विव प्राहरन्निति पिण्डीकृतोऽर्थः ।
अवयवावयविनोस्सामस्त्येन रूपणमत्त्रेति
समस्तवस्तुविषयं रूपक
 
मलङ्कारः ॥
 
इत आरभ्य नवभिश्श्लोकैस्तु रुष्क सेनया साकं कम्पराजस्य
 
युद्धं वर्ण्यते
 
-
 
[वल्गन् रयेणावनिपालवाजी
रराज योधानभि फेनराजीम् ।
 
समुद्रमं ] स्तस्य विरोधियोधान्
दृष्ट्वा जहासेव पलायमानान् ॥
 
15 11
 
तस्य
 
वाजी
 
वल्गन्निति ॥ अवनिपाल: भूमिपाल कम्पनः
अश्वः औपवाह्य इत्यर्थः ।
योधान् वीरान् अभि आभिमुख्येन वीराणामभिमुखमित्यर्थः ।
'वाजी बाणाश्वपक्षिषु' इति मेदिनी ।
भाग ' इति कर्मप्रवचनीयवत्त्वाद् द्वितीया । रयेण जवेन उत्साहजन
तेनेत्यर्थः । वल्गन् (धाराविशेषेण ) गच्छन् । फेनराजीम् फेनपरम्पराम्
फेनराशिमित्यर्थः । समुद्रमन् बहिः प्रकाशयन् पलायमानान्
:
 
• अभिर
 
अप