This page has not been fully proofread.

मधुराविजये
 
उपरितनप्रदेशम् तमुद्दिश्येत्यर्थः । क्षिप्तः प्रास्तः । आकाशे समुत्क्षिप्त
इत्यर्थः । अस्य प्रकृतस्य गज़स्य । स्कन्धे पृष्ठे · पुरः अग्रे अभ्य
मित्त्रम् अमित्त्रस्याभिमुखम् । निपत्य उत्प्लुत्य स्वस्य शत्रोः हस्ति
पकस्य अभिमुखं यथा तथा गज़स्कन्धे स्थित्वेत्यर्थः । आधोरणम्
हस्त्यारोहम् निपात्य अध:पतितं कृत्वेत्यर्थः । स्वयम् एव आत्मनैव
इत्यमरः । गजम् अधिरोहतीति
गजाधिरोहः । हस्त्यारोहः हस्तिनमधिरूढः हस्तिपकस्सन् । कर्मण्यण् ।
जज्ञे अजनि अभावि । जनी प्रादुर्भावे - भावे लिट् ।

 
न त्वन्येन ।
 
( स्वयमात्मना "
 
" भव
 
त्यर्थे भवत्यस्ति जायते विद्यते तथा
 
"
 
इति क्रियानिघण्टुः । शूरोऽयं
 
.
 
गजेन वियति क्षिप्तो महता लाघवेन तस्मिन्नेव तद्धस्तिपकाभिमुखं
 
तत्स्कन्धाग्रभागमधिष्ठाय तं निरस्य
 
नियन्ता संवृत्त इति योधविजयोऽत्र
 
तत्स्थानमाक्रम्य स्वयं तस्य
प्रकथ्यते ॥
 
518
 
द्विषा सरोषेण पृषत्कवर्षे
 
निषूदितः कोऽप्यमरत्वमेत्य ।
 
चकार तस्योपरि पुष्पवर्ष
 
सहर्षमुद्घोषितचाटुवादः ॥
 
11 11 11
 
द्विषेति ॥ सरोषेण सक्रोधेन । युध्यमाने योधद्वये प्रतियोध
 
कृतपराभवजातामर्षेणैकेनेत्यर्थ: । द्विषा शत्रुणा ।
वृष्टिभिः अविच्छिन्नबाणपरम्पराभिः श्लाघनीयवीर्यातिशयप्रदर्शिकाभि
 
पृषत्कवर्षे: बाण
 
कोऽपि यः.
 
कश्चन वीरः ।
 
रित्यर्थः । निषूदितः हतः संहृतः ।
अमरत्वम् देवताभावम् देवत्वम् । एत्य प्राप्य । अपराङ्मुखा भूत्वा
युध्यमानानां वीराणां स्वर्गस्मरणादिति भावः । सहर्षम् सानन्दम् ।
' मरणान्तानि वैरा' णीति न्यायात्तद्विस्मृत्येति भावः । उद्घोषः महा
ध्वनिः। तद्वन्तः कृताः । महता रवेण समुत्थिता इत्यर्थः । तादृशाः