This page has not been fully proofread.

518
 
मधुराविजये
 
तथा
 
प्रती
 
भूमावित्यर्थः । यावत् यावति काले । पतन्ति अश्यन्ति न न
भवन्ति । तावत् तावति काले । अतिशीघ्रमित्यर्थः । निशाचरीभिः
राक्षसीभिः । कर्त्रीभिः । अवतंसहेतोः अवतंसस्य हेतोः । अवतंसेन निमि
तेन । कर्णपूरनिमित्तमिति यावत् । कर्णभूषणानि कृत्वा धर्तुमनस
इत्यर्थः । ' षष्ठी हेतुप्रयोगे ' इति षष्ठी । अतएव अलिष्टा अम्लाना
शोभा कान्तिः येषाम् तथोक्तानि । अमलिनकान्तीनीत्यर्थः ।
विधानि यथा भवन्ति तथेत्यर्थः । अक्लिष्टशब्दमेतदर्थे कालिदासोऽ
पीत्थं प्रयुङ्क्ते । " इदमुपनत मे वंरूपम क्लिष्ट कान्ति इति ।
ष्टानि गृहीतानि । भूमौ पतने मालिन्यं तेषां
संभवेदिति धिया
सबहुमानं मार्गमध्य एवं परिगृहीतानि सत्वरं ताभिरिति
भावः ।
' गृह्णात्येवं झषति चीवति स्वीकरोतीति चत्वारि चात्मने स्युः ।
प्रतीच्छति' इति भट्टमल्लः । अनेन तेषां मुखेषु न दैन्यभावलेशोऽ
पौति महावीरत्वं तेषु ध्वन्यते । तेन वीरस्वर्गच तेषां हस्तगत इति
सूच्यते । निशाचरीणा मेतादृक्करणासंबन्धेऽपि तथोक्तिरित्यतिशयोक्ति
रलङ्कारः । एतादृशप्रस्तावे क़ालिदास एवं प्रकथयति " अधोरणानां
गजसन्निपाते शिरांसि चक्रे निशितैः क्षुः । हतान्यपि श्येननखाग्र
कोटिव्यासक्तकेशानि चिरेण पेतुः " इति ॥
 
गज़विजयो वर्ण्यते
 
-
 
"
 
C
 
करेण कं चित् पदयोर्ग हीत्वा
क्षिप्तं दवीयो वियति द्विपेन्द्रः ।
पतन्तमाच्छिन्नकृपाणयष्टि:
प्रत्येच्छदुच्चेर्दशनद्वयेन ॥
 
11 9 11
करेणेति ॥ द्विपेन्द्र: गजेन्द्र: उत्तमगजः क्षत्त्रियजातीयो गज
इत्यर्थ: । गजागम एवमाह
 
भद्रश्रीहरितालुगुग्गुलुशिलागन्धोऽतिशूरो