This page has not been fully proofread.

नवमसर्गः
 
तावद् गृहीत्वास्य तुरङ्गमङ्घ्रयो
रास्फ़ालयामास गजस्तमुर्व्याम् ॥
 
·((
 
11 5 11
 
यावदिति ॥ अश्ववार: सादी अश्वारोहः । कृपाणेन खगेन
 
भवति तथा ।
 
अति
 
कुम्भम् गज़शिरोभागम् । 'कुम्भौ घटेभमूर्धांशौ' इत्यमरः । विपाट
विदलय्य यावत् यावता कालेन निवर्तते परावर्तते तावत् तावत्येव
काले सत्वरम् त्वरया वेगेन सहितं यथा
लाघवेन अप्रतीकारेणेत्यर्थः । अङ्घयोः चरणयो: 'पदङ्घ्रिश्चरणोऽ
स्त्रिया ' मित्यमरः । तुरङ्गम् अश्वम् गृहीत्वा गुण्डादण्डेन तदीया
श्वस्य पादौ परिगृह्यत्यर्थः । तम् अश्वारोहम् उर्व्याम् भूम्याम्
आस्फालयामास पातयित्वा ताडयामासेत्यर्थः । पतनपूर्वकताडनं धातो
रथः । आङ्पूर्वात् स्फुल संचलने इत्यस्मात् घ
जीत्यावे निष्पन्नात् आस्फालशब्दात्तत्करोतीति णिच् ।
 
स्फुरतिस्फुल
 
त्योघं '
 
ताने ताडयति च हन्ति
 
आघट्टयति चास्फालयति' इति
 
भट्टमल्लः ।
 
अश्वसादी हस्तिकुम्भं विभिद्य परावर्तते । गजश्चाम
मविगणय्य तद्वाधाम् तदधिष्ठिताश्वन साकं क्रोधात्तं भूमौ पात
यित्वा मारयामासेत्यर्थः । अयं च हस्ती गम्भीरवेदीति ज्ञायते ।
अत्र गजशास्त्रम् " त्वग्भेदाच्छोणितस्रावान्मांसस्य च्यवनादपि । आत्मानं
यन्त्रजानाति सा स्याद गंभीरवेदिता " इति ॥
 
तस्मिन् घोरे युद्धे राक्षससंचारं वर्णयति ॥
 
निशाचराः केचन कुञ्जराणां
कुम्भस्थलान्निस्त्र तमास्त्रपूरम्
निष्ठ्यूतमुक्तामणयस्सहर्ष
चुचूषुरुत्पुष्करनालदण्डः ॥
 

 
5 18
 
"
 
॥ 6 ॥