This page has not been fully proofread.

505
 
अष्टमसर्गः
 
$177* S
 
ण्यन्ताल्लोट् । घटादय इति मित्त्वादुपधाहस्वो न । तुरुष्का कावेर्या
स्सेतुं प्रशिथिलय्य प्रवाहवेगनिरोधनेन तत्तदपमार्गेषु स्वानुकूलेषु प्रावत
यन्निति पूर्वमुक्तम् । तद्वधेन तामुन्मार्गप्रवर्तिनीं सन्मार्गे यथापूर्वं प्रवर्तय ।
शिथिलं सेतुबन्धं च दृढं कुरु । करिणीमिव स्वती रानुसरणे सवि
लासं महावेगेन प्रवहन्तीं तां कुर्विति शास्ति देवतेयं राजानम् ।
अनेन कावेर्यास्सेतुबन्धोद्धारोऽपि कम्पराजेन कृत इति चरित्रांशो ज्ञायते ।
कावेर्यां करेणुत्वरूपणमत्रेति रूपकमलङ्कारः । वृत्तविपरिणामो न जात
इति सर्गो न परिसमाप्तः । दश श्लोका वा तदुपरिसंख्याका वा
तैश्च श्लोकैर्मधुरादेव्याः
श्लोका अत्र लुप्ता इत्यभ्यूहितुं शक्यते ।
कम्प राजाश्वासनपूर्वकदत्ताभयोक्तिरूपैर्भवितव्यम् ॥
 
इति
 
श्रीगङ्गादेव्या विरचिते
 
मधुराविजयनाम्नि वीरकम्परायचरिते
मधुराधिदेवतादिव्यास्त्रप्रदानं नाम
अष्टमसर्गः
 
)
इतीति ॥ शेषं पूर्ववत् । मधुरापुराधिदेवता देवतात्मा मधुरा
मधुरेत्यर्थः । तस्याः कर्तरि षष्ठी । दिव्यास्त्रम् देवतासम्बन्धी खङ्गः । तस्य
प्रदानम् तुरुष्कवधं कतु' कम्पराजाय तत्समर्पणम् । नामेति प्रसिद्धौ ।