This page has not been fully proofread.

तल्लक्षणात् ॥
 
अष्टमसर्गः
 
503
 
दुरितंकपरं तुरुष्कनाथं
द्रुतमुत्खाय जगत्त्रयैकशल्यम् ।
प्रतिरोपय रामसेतुमध्ये
विजयस्तम्भशतानि बाहुशालिन् ।
 
महाबाहो ।
 
दुरितैकेति ॥ बाहुशालिन् इति संबुद्धि:
एव तुरुष्कराजवधस्त्वयि संभाव्यत इति भावः । एकस्मिन् एक
स्मिन्नेव पर: आसक्त: नत्वन्यस्मिन् कस्मिंश्चिदपीत्यर्थः ।
आसक्त इत्यर्थः । दुरिते पापे एकपरः इति विग्रहः । पापकार्याचरण
परायण इत्यर्थः । तथाविधम् । किश्च । तम् जगत्त्रयस्य भुवनवित
यस्य त्रयाणां जगतामित्यर्थः । एकम् श्रेष्ठम् महत् दृढम् अभेद्यम्
शल्यम् बाण: तदिव महाव्यधाजनकमित्यर्थ: । 'एकं संख्यान्तरे श्रेष्ठे
केवलेतरयोस्त्रिषु' इति मेदिनी । 'शल्यं तु न स्त्रियां शङ्खे क्लीबं
क्ष्वेडेषु तोमरे' इति मेदिनी । तथाविधम् तुरुष्कनाथम् यवनराजम् ।
 
कर्म । द्रुतम् शीघ्रम् । स्वस्य देशकालयोरनुकूलत्वेन तदीय दुष्कृतस्य
चात्युत्कटत्वेन नह्य पेक्षायास्समयोऽयमिति भावः । उत्खाय उत्पाटय
उन्मूलय्य समूलं विनाश्येत्यर्थः ।
समाः । उत्खनत्यात्मनेऽप्येते " इति भट्टमल्ल: । रामेण रावणवधाय
 
उन्मूलत्युज्जहाति चोत्पाटयति वै
 
॥ 35 11
 
अत
 
इत्यर्थ: । मधुरामारभ्य सेतुपर्यन्तमित्यर्थः । यवनाकान्ताः प्रदेशा: एत
इति जेतव्यस्थलनिर्देशश्च सूच्यते । तस्मिन् विजयस्तम्भाः मधुरा विजय
शंसका शासनस्तम्भा इत्यर्थः । तेषाम् शतानि दशगुणं शतम् सह
स्रम् । असंख्याकानि तानीति यावत् । प्रतिरोपय प्रतिष्ठापय । त्वद्वि
जयं सर्वजगद्विदितं कुवित्यर्थः । तुरुष्कवधानन्तरं प्रतिष्ठितानि कम्प
राजविजयशासनानि मधुरायास्सेतोश्च मध्ये वर्तेरन्नित्यनेन ज्ञायते ।