This page has not been fully proofread.

77)
 
अष्टमसर्ग:
 
निहताहितलोहिताम्बुवर्षे
नृप निर्वापय तापमुर्वरायाः ॥
 
11 38 11
 
अविनीतीति ॥ नृपः राजा तस्य संबुद्धिः । हे नृप राजन् ।
अविनीतिः अविनयः धाष्टर्यम् औद्धत्यम् तुरुष्काणामित्यर्थः । सैव
दवानल: दावाग्निः । उभयोरपि दाहकत्वसाम्यादेवमुक्तिः । तस्य अनु
बन्धात् संबन्धात् संपर्कात् । अधिकं यथा भवति तथा उन्मीलत्
विकसत् एधमानम् परितो व्याप्नुवत् अधर्म एव घर्मजातम् स्वेद
परम्परा यस्य तथोक्तः । तथाविधम् । उर्वरायाः भूम्या उर्वरा
तु भूमात्रे सर्वसस्याढ्यभुव्यपि ' इति हैमः ।
स एव ताप: औष्ण्यम् । तम् । कर्म । निहताः मारिताः संहृता:
अहिता: विद्विषः शत्रवः तेषाम् लोहितम् रक्तम् तदेव अम्बु जलम्
तस्य वर्षा : वृष्टयः अविच्छिन्नधारारूपाः । तैः करणभूतः । निर्वापय
तुरुष्ककृत दुराचरणै रधर्मस्सर्वत्र प्रवृद्धः । तेन
भूम्या अतीव भारस्समजनि । तस्मात् खिद्यते भूदेवता ।
 
ताप: संतापः बाधा
 
उपशमय नाशय ।
 
यथा
 
दवानलसंपर्कादौष्ण्यातिशयस्तेन च स्वेदप्रकोपः तस्य च जलसेच
रपगमः तद्वत्त्वमपि दवानलवत् प्रज्वलद्यवनदुरन्तैदिनदिनमभिवधित
मुष्णातिशयवन्नितरां बाधमुत्पादयन्तं स्वेदजलवत्प्रजासु कश्मलतामात्रा
दयन्तं भूदेवतायाः अधर्मं जलवर्षणेनेव तुरुष्करक्तश्शीघ्रं नाशय ।
उद्धर भूदेवतामिमामिति मधुरादेव्या प्रबोध्यते कम्पराजः ।
समस्तवस्तुविषयकं सावयवं रूपकम् ।
 
अत्र
 
ताप इत्यत्र तु श्लिष्टमिति
 
विशेषः ॥
 
परिपन्थिकबन्धक़न्धरान्त
स्त्र तरक्तासवपूरपारणाभिः ।
कटपूतनभूतयातुधाना
नभितस्तर्पयतात्तवैष खङ्गः
 
11
 
501
 
"
 
34 11