This page has not been fully proofread.

अष्टम सर्गः
 
यवनाधिपति बलोत्तरस्त्वं
 
29
 
विदधीथा स्फुटमच्युतावतारम् ॥
 
अमुनेति ॥ बलेन सत्त्वेन उत्तरः श्रेष्ठ: महाबल इत्यर्थः ।
 
"
 

 
उत्तर प्रतिवाक्ये स्यादुर्ध्वोदीच्योत्तमेऽन्यवत् । उत्तरस्तु विराटस्य
तनये दिशि चोत्तरा " इति विश्वः । त्वं भवान् । दक्षिणस्याम्
दक्षिणदिक्स्थायाम् मधुरायाम् पुरि मधुरापत्तने । उत्तरस्यामपि मधुरो
वृन्दावनसमीपगताऽस्तीत्येवमुक्तिः । कंसवत् कंसेन तुल्यमिति विग्रहः।
कंससदृशम् । तेन तुल्यं क्रिया चेद्वतिः । नृशंसशब्देन नृशंसकर्तृक
घातुकत्वं लक्ष्यत इति वरुपपत्तिः । कंसो यथा सोदर्याश्शिशुन्निर्लज्जो
निर्दयो हन्ति · पूज्यान् व्यथयति तथाऽयमपि पशुमारं मारयति
प्रजास्सर्वा आबालवृद्धं • श्रोत्रियद्विजान् ऋषिकल्पान् कारागृहबन्धना
स इव राक्षसांशश्चेत्येवमुच्यते । नृशंसम् घातुकं
 
दिना पीडयति ।
 
पापम् नित्यं परद्रोहक़ारिणम् 'नृशंसो घातुक: क्रूर: पाप' इत्यमरः ।
तथाविधम् यवनाधिपतिम् तुरुष्कराजम् विशस्य हत्वा । अ
श्रीकृष्णस्य अवतार: आवेश: विभूतिविशेषः तस्य आश्रयम् आत्मान
मित्यर्थः । 'अवेत्ॠस्त्रोर्घञ् ' इत्यधिकरणे घञ् । तथाविधम् स्फुटम्
व्यक्तम् सर्वजनविदितं यथा स्यात्तथेत्यर्थः । विदधीथाः कुरु आचर।
स कंस इव लोकमुद्वेजयति । तद्ववेन त्वं कृष्ण इति लोक़विदितो
भवेरिति तात्पर्यम् । विपूर्वात् धाञो लिङ् ॥
 
9
 
दुष्टशिक्षणं शिष्टरक्षणं च तव वंशपरम्परायातमिति राजानं
 
प्रस्तौति देवी -
 
अनिदम्प्रथमो हि धार्यतेऽसौ
भवताऽन्यैर्मनसाप्यधारणीयः ।
भुवनत्रयरक्षणैकदीक्षा
विधिशंसी कटक: पदाम्बुजेन ॥
 
30 11