This page has not been fully proofread.

अष्टमसर्गः
 
अधिसङ्गरमस्य च प्रभावा
द्भविता ते न कदाऽपि सत्त्वसादः ।
असितोमरचऋचापमुख्यै
 
405
 
27
11 W
 
द्विषदस्त्रैर्वपुषो न चाभिषङ्गः ॥
 
न भविता ।
 
विशेषः ।
 
अधिसङ्गरमिति ॥ अस्य शस्त्रस्य दिव्यायुधस्येत्यर्थः । प्रभावात्
तेजसः । च पादपूरणे । सङ्ग युधि अधिसङ्गरम् । विभक्त्यर्थेऽव्ययी
भावः । कदाऽपि यस्मिन् कस्मिंश्चिदपिकाले । सत्त्वसादः बलनाशः
न भविष्यति । किञ्च । असिः खङ्गः । तोमरम् शस्त्र
अत्र वैजयन्ती – 'तोमरोऽस्ती लोहबहुलं दण्ड: कासूश्च
सर्वला । हलं द्विफलपत्राग्रम्' इति । चक्रम् चक्रायुधम् चाप: धनुः
ते मुख्या: येषां तानि । तैः द्विषदस्तैः । वैरिप्रयुक्तशस्त्रास्त्राभ्या
मित्यर्थः । वपुषः शरीरस्य अनुषङ्गः बाध: न न भविष्यति ।
दिव्यायुधांशैस्सर्वे निर्मितत्वेनास्य परास्त्राणि पुष्पाणीव भूत्वा न बाधां
। शक्तिहैन्यं च न महायुद्धेषु बहुकालम विच्छिन्नतया प्रवृत्तेष्विति
 
ते कुर्युः
तस्य प्रभावो वर्ण्यते ॥
 
असुमात्र करालरश्मिपाली
रचितालीकतटिच्छटाविलासम् ।
धुवतस्तव चेष्टितुं पुरस्ता
 
न कृतान्तोऽपि भवत्यलं क़िमन्यैः ॥
 
28 11
 
अमुमिति ॥ अमुम् एनम् दिव्यम् खड्गम् । अत्रम् शोणितम्
तस्य इमे आस्रा: । अण् । शात्रवरुधिरसंबन्धिन इत्यर्थः । क़राला:
भयङ्कराः रश्मयः किरणाः दीर्घप्रसाराः कान्तयः तेषाम् पाली
पङ्क्ति: । 'पालि: कर्णललाटाग्रेऽस्त्री पङ्क्तावङ्कप्रभेदयोः' इति मेदिनी ।
पाल रक्षणे इत्यस्माच्चुरादिण्यन्तादच इ । 'कृदिकारादक्तिनः' इति