This page has not been fully proofread.

अष्टमसर्गः
 
तत्संभाषणप्रकारमेव कथयति । तत्र चास्य दिव्यायुधस्यागमन
 
प्रकारस्त्रिभिश्श्लोकैर्वर्ण्यते
 
-
 
नरनाथ पुरा कृपाणमेनं
विरचय्याखिलदेवतायुधांशैः ।
उपदीकृतवान् पिनाकपाणे
र्दनुजानां विजयाय विश्वकर्मा ॥
 
491
 
23 ॥
 
नरनाथेति ॥ नरनाथः मनुजाधिपः तस्य संबुद्धिः हे ! नर
नाथ ! भो राजन् ! पुरा पूर्वकाले । विश्वकर्मा देवताशिल्पी ।
'विश्वकर्माऽकंसुरशिल्पिनोः' इत्यमरः । एनम् पूर्वोक्तम् अमुम् । इदम
कृपाणम् खड्गम् अखिलदेवताः सर्वा देवताः तासाम्
 
एनादेशः ।
 
पिनाक
 
आयुधानि शस्त्राणि सर्वाणि दिव्यायुधानीत्यर्थः । तेषाम् अंश: भागै
तेषु सारभूतान् भागानादायेत्यर्थः । विरचय्य निर्माय ।
अजगवम् ( ईश्वर ) धनुः सः पाणौ यस्य । शिवः । 'प्रहरणार्थेभ्य '
इति परा सप्तमी । तस्य । शेषत्वविवक्षया षष्ठी । तस्मादित्यर्थः ।
दनुजानाम् राक्षसानाम् । विजयाय तद्विजयं प्राप्तुमित्यर्थः ।
 
क्रिया
 
र्थोपपदस्येति चतुर्थी ।
 
उपदीकृतवान् अनुपदाम् उपदां कृतवानित्य
 
भूततद्भावे च्वि: । उपहारीकृत वानित्यर्थ: । सादरं पारितोषिकतया
इस्मै प्रददाविति यावत् । सर्वदेवतायुधमयीयं खड़लता। ईश्वरोऽप्यनेन
विजयीत्येतत्प्रभावः कथ्यते । इत्थमीश्वरार्थे प्रथमं निर्मितोऽयमभूदिति
 
परमार्थः ॥
 
अमुमुग्रतपःकृतप्रसादः
 
प्रददौ पाण्डचनृपाय सोऽपि देवः ।
यमुपेत्य चिरेण तस्य वंश्याः
पृथिवीमप्रतिशासनामशासन् ॥
 
"
 
24 11