This page has not been fully proofread.

386
 
मधुराविजये
 
अथेति ॥ अथ अनन्तरम् तस्मिन् खङ्गे प्रादुर्भूते सतीत्यर्थः ।
करे हस्ते लग्नः सक्तः हस्तवृत इत्यर्थः । तादृशः त्सरुः खङ्गमुष्टिः
यस्याः । तादृशी । कलधौतकोशतः स्वर्णमयखङ्गविधानकात् । 'कल
बौतं रूप्यहेम्नोः' ' कोशोऽस्त्री कुड्मले खङ्गेऽपिधानेऽथौ घदिव्ययोः'
इति चामरः । पञ्चम्यास्तसिः । अचिरात् सद्यः उज्झितः परित्यक्तः ।
 
कञ्चुकः निर्मोकः सर्पत्वक् ।
 
इत्यमरः ।
 
'
 

 
समौ कञ्चुकनिर्मोको
 
तस्य अनुबन्धः संबन्धः तेन स्फुट व्यक्तः प्रकाशमानः ।
'स्फुटो
ब्यक्तप्रफुल्लयोः। सिते व्याप्ते' इति हैमः । कञ्चुकपरित्यागेन सर्वाणां
दीप्तिमत्त्वं भवतीत्येवमुच्यते । कालोरगस्य कृष्णसर्पस्य भोगः शरी
रम् । 'भोग़स्लुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । तस्य
साम्यम् सादृश्यम् । तद्भजतीति 'भजो ण्विः' । तमुज्झित्वा काला
हिरिव कोशमुत्सृज्य भृशमभादप्रतिरोधेन स
तथाविधम् तम् खड्गम् कृपाणम् । कर्म । उच्चखान
- आकृष्टवती । वल्मीकात् कालोरगमिव ( खडग़ ) कोशात् तं
 
,
 
खड्ग इति
 
भावः ।
 
आचकर्ष
 
द्रुतं निर्गमय्य हस्ते चकारेति वाक्यार्थः । उपमालङ्कारः ॥
 
इतः परं त्रिभिश्लोकैस्तमेत्र खड्गं वर्णयति -
 
क्षयकालकरालभद्रकाली
गलकालागरुकर्दमायमानैः ।
 
महसां प्रसरैरदीपहायें
 
किमपि ध्वान्तमिव प्रकाशयन्तम् ॥
 
"
 
a
 
19 11
 
क्षति ॥ कालः प्रलयसमयः तस्मिन् कराला भयंकरी ।
लयं कर्तुं प्रवृत्तत्वादिति भावः । 'करालं दन्तुरे तुङ्गे भीषणे चाभि
धेयवत्' इति मेदिनी । तादृशी भद्रकाली तन्नाम्नी शक्तिः शक्ति
विशेषरूपा। शक्तिभेदाश्चेत्यसभिहिताः । "नारायणी भद्रकाली रुद्राणी