This page has not been fully proofread.

75)
 
अष्टमसर्ग:
 
इति सा निखिलं निवेद्य राज्ञे
 
यवनानां जनगहितं चरित्रम् ।
अतिभीषणमात्मनः प्रभावा
 
दिव्यायुधममुं प्रस्तोतुमुपक्रमते
 
अथ तं कलधौत कोशतस्सा
कर लग्नत्सरुरुच्च खान खङ्गम् ।
अचिरोज्झितकच कानुबन्ध
स्फुटकालोरगभोगसाम्यभाजम् ॥
 
17
 
त्कमपि प्रादुरभावयत्कृपाणम् ॥
 
इतीति ॥ इति इत्थम् । सा मधुराधिदेवता । कर्त्री। राज्ञे
कम्पराजाय । जनगर्हितम् लोकनिन्दितम् लोकविद्विष्टमित्यर्थः । यवं
नानाम् तुलुष्काणाम् चरित्रम् लोकप्रवर्तनम् । निवेद्य विज्ञाप्य सवि
नयं कथयित्वा । आत्मनः स्वस्थ । प्रभावात् महिम्नः महत्त्वेन ।
आत्मनो देवतामूर्तित्वादित्यर्थः । अतिभीषणम् अत्यन्तं दारुणम् अति
भयङ्करम् दर्शनमात्रेणैव शत्रु प्राण पहारकमित्यर्थः । कृपाणम् खड्गम् ।
कमपि अनिर्वचनीयम् वर्णयितुमशक्यम् महान्तम् सर्वदेवतायुधांशसार
भूतं दिव्यं खड्गम् । प्रादुरभावयत् । आविर्भावियामास । इन्द्रजालेनेव
 
बलसम्पन्नानाम प्राकृतानां संहरणं
 
सद्यस्स्वसन्निधि प्रापयामासेत्यर्थः ।
दिव्यैरेव साधनैर्भवति । नतु साधारण: । अयमपि यवनराजो रावण
 
वत्तेजस्वी ।
साधनैरेव साध्यः ।
 
शूरवतंस इति रावणवध इवैतस्यापि संहारो दिव्य
नतु लौकिकै रित्यमानुषं साधनं तत्कम्पराजाय
दातुं स्वप्रभावेन संनिधाप्य राज्ञे दर्शयामास तमिति निर्गलितोऽर्थः ।
अनेन रावणवल्लोककण्टकोऽयं यवनराट् तदर्थं कृतजन्मना रामेणेव
कम्पराजेनैव वध्य इति सूच्यते ॥
 
-
 
185
 
11 18 11