This page has not been fully proofread.

अष्टमसर्गः
 
गुण्ठनमत्यावश्यकमिति घिया तदेता लूता स्तासां स्वजालैः कल्प
यन्तीव स्थिता इति पिण्डीकृतोऽर्थः । अत्र लूतातन्तुजालकेषु चीर
पटावगुण्ठनत्व वहनसंभावनेति क्रियोत्प्रेक्षाऽलङ्कारः ॥
 
हिमचन्दनवारिसेकशीता
 
न्यभवन् यानि गृहाङ्गणानि राज्ञाम् ।
हृदयं मम खेदयन्ति तानि
द्विजबन्दीनयनाम्बुदूषितानि ॥
 
479
 
11
11 11
 

 
वेणु
 
हिमेति ॥ राज्ञाम् मधुरापुरीपालकानां पुरातनानां प्रभूणा
मित्यर्थः । यानि गृहाणाम् भवनानाम् अङ्गणानि प्राङ्गणानि भवन
पुरोभागाः । कर्तृभूतानि । "अङ्गनं प्राङ्गने याने कामिन्यामङ्गना
मता' इति नान्तेष्वमं पपाठ विश्वः । पृषोदरादित्वादङ्गणमिति
सुधा । " अध्यास्य सौरमेयं मौक्तिकरुचिरङ्गणेषु विहितमतिः " इत्येव
मादिश्लेषप्रयोगा अस्य सत्तामुद्भावयन्ति । हिमम् कर्पूरः ।
सारस्तु ( रेणुकावर्ण) कर्पूरश्चन्द्रभस्म हिमाह्वयम् वेधकः' इति
त्रिकाण्डशेषः । चन्दनम् गन्धसारः तयोः वारि उदकम् कपूरोदक
चन्दनोदकं चेत्यर्थ: । ताभ्याम् सेक सेचनम् क्षरणम् तेन शीतानि
शैत्यवन्ति । अभवन् आसन् । पुरेत्यर्थः । तानि तादृशि राजभव
नानि । द्विज़ा ब्राह्मणाः त एव बन्ध कारागृहनिबद्धाः तेषाम्
नयनानि नेत्राणि तेषाम् अम्बूनि तेभ्यस्त्रवन्ति उदकानि अश्रूणि
तै: दूषितानि कश्मलानि मालिन्यवन्ति भूत्वा । मम हृदयम् मन्मनः खेद
यन्ति कुलेशयन्ति । कर्पूरचन्दन सुगंधोदकैराकृताः पूर्वं ये प्रदेशा
 
6
 
चोदवमंस्तेषु ( मधुरापुर्या: ) स्वस्य पूर्वं परिपालकानां
राज्ञां भवनाङ्गण ष्विदानीं स्थापिता: बन्दीकृता ब्राह्मणाः । ते
तुरुष्कभटैरतीव बाधिता अत्यन्तं दुःख्यन्ति । तदश्रुभिस्तत्प्रदेशा आद्र
कृता भृशमौष्ण्यं वहन्ति मालिन्येन साकमिदानीमिति निवेदयति