This page has not been fully proofread.

74)
 
अष्टम सर्ग:
 
.' दशधन्व
 
राजमार्गः घण्टापथः । ' घण्टापथस्संसरणम्' इत्यमरः ।
न्तरो राजमार्गो घण्टापथस्स्मृत' इति चाणक्यः । रमणीनाम्
सुन्दरीणाम् कान्तमभिसरन्तीनामित्यर्थः । दिवाभिसरणमप्यभिसारिका
णामस्ति । अभिसारिकाच त्रिविधा: दिवाभिसारिका: ज्योत्स्ना भि
सारिका: तमिस्राभिसारिका इति । अभिसारिकाः मणिमञ्जीराणि
धारयन्ति । तासाम् मणिनूपुराणि रत्नमयान्यङ्गदानि तेषां प्रणादः
ध्वनिः । तेन । अत्यन्तं रमणीय: रमणीयतरः भृशं श्राव्यः । मम
कर्णयोरमृतायमान इत्यर्थः । तथाविवस्सन् । बभूव आसीत् । पुरेति
। अभिसारिकाणां नूपुरधारणं प्रति रसार्णवसुधाकरकारा
रशनादाम माधुर्यदीपितानङ्गवैभवाः । चरणाम्बुजसंलग्नमणिमञ्जीर
 
शेष:
 
मञ्जुला ' इत्याहुः । तस्मिन्नित्यर्थः । द्विजाः ब्राह्मणाः तेषाम् शृङ्खलिकाः
निगडाः लोहरज्जवः । शृङ्खला एव शृङ्खलिका 'अथ शृङ्खला अन्दुको
निगडोऽस्त्री स्यात् ' इत्यमरः । आश्रयायिभावे षष्ठी। तत्पदादिषु
संलग्नाशृङ्खला इत्यर्थः । तेषाम् खलत्क्रियाः खलत्काराः खलखल
( खलदित्यव्ययम् रवानुकरणे । क्रियाशब्दस्स्वरूप
स्वोऽज्ञातावात्मनि स्वं त्रिष्वात्मीये
 
दित्येवंध्वनयः ।
 
वाची । स्वम् आत्मा
स्वोऽस्त्रियां धने इत्यमरः । तस्य ममेत्यर्थः । कर्णयोः श्रवणयोः
शूलम् शूलवद्वाधाजनिकाम् रुजम् । अस्त्री शूलं रुगायुध मित्य
मरः । कृरुते तनुते । इदानीमिति शेषः । तध्वनिर्मया श्रोतुमशक्यस्सन्
 
'
 
मम भृशं दुःखमुत्पादयतीत्यर्थः ।
त्वयि राजन्यपि नेयमुचितेति भावः ।
 
एतादृशदुर्दशाविपर्ययमहमतुभवामि
मधुरापुरीराजमार्गेषु प्रिय
 
वसति प्रति सविलासं गच्छन्त्यो भोगस्त्रियः स्वपादधृतनूपुरध्वनिभि
श्रोॠणां श्रवणतर्पणमकुर्वन् । इदानीं यवनास्तेष्वेव मार्गेषु श्रोत्रि
यान् द्विजान् शृङ्खलाभिदृढं पशुमिव बद्ध्वा कारागारंप्रति नीय
कृतोऽर्थः । कर्मठान् ऋषिकल्पान् श्रोत्रियद्विजान् बन्दीकृत्य याद
मानेषूच्चै: प्रवृत्तास्तदार्तध्वनयशृण्वतां भयं जनयन्तीति पिण्ड
 
"
 
(
 
"
 
477