This page has not been fully proofread.

अष्टम सर्गः
 
सुगन्धाः । सततानि अविच्छिन्नतया प्रवृत्तानि 'नित्यं सदा सतत
मजस्रमिति सातत्ये ' इत्यापिशलिः । ' समो हितततयो' रिति मका
रस्य लोपः । तथाविधानि अध्वरधूमसौरभाणि येषु तैः । निगमैः
वेदैः ।
' निग़मा: पूर्वणिग्वेद निश्चयाध्ववणिक्पथा: ' इति हैमः ।
उद्घोषणवद्भिः उच्चैर्ध्वननवद्भिः संततप्रवृत्तवेदाध्ययनै रित्यर्थः । तादृशैः
अग्रहारैः ब्रह्मप्रतिष्ठापरपर्याय निवासाय पोषणाय च ब्राह्मणेभ्यो दीय
मानैः ग्रामैः । सप्तसंतानेण्वियमेका । " ब्रह्मप्रतिष्ठा संतानं तटाको वन
मेव च । कृतिर्देवालयश्चैव निक्षेपस्सप्तसंततिः इति सप्तसंततयः
प्रकीर्तिताः । तैः कर्तृभूतैः । अधुना इदानीम् अस्मिन् समये विस्त्र
मांसानि अपक्वामिषाणि आर्द्रमांसानीत्यर्थः । पिशितं तसं मांसं
 
'
 
पललं ऋव्यमामिषम् '
 
इत्यमरः । तेषां
 
गन्धा:
 
गन्धा: दुर्गन्धाः येषु ।
मद्यस्यातिपानेन
 
मत्ताः
 
तथाविधैः । अधिकम् क्षीबा: अत्यन्तं
मदयुक्ता: अतिमद्यपानेन परवशा इत्यर्थः । तथाविधाः तुलुष्का:
तुरुष्काः । रलयोरभेदः । तेषाम् सिंहनादा: वीरगर्जितानि येषु तैः ।
तथाविधैः । अज़नि अभावि जनेभवि लुङ् । दीपजनेति चिण् ।
चिणो लुगिति लुक् । यज्ञादिपुण्यकर्मभिर्वेदघोषैश्च निर्भरा ब्राह्मण
निवासा अग्रहारभूमय इदानीं तुरुष्करधिष्ठिता मद्यपानशाला ( मांस
दुर्गन्धभूयिष्ठा ) मांसाहारगृहाच कृता इति पिण्डीकृतोऽर्थः ॥
यवनानां घातुकत्वं प्रकथयन्ती मधुरापुरीदुस्थितिमितः प्रभृति
 
पञ्चभिश्श्लोकैर्वर्णयति
 
-
 
मधुरोपवनं निरीक्ष्य दूये
बहुश: खण्डितनालिकेरषण्डम् ।
परितो नृकरोटिकोटिहार
प्रचलच्छूलपरम्परापरीतम् ॥
 
"
 
475
 
118 11