This page has not been fully proofread.

472
 
मधुराविजये
 
ते नयनविषयं यावदत्येति भानुः । कुर्वन् सन्ध्यावलिपटहतां शूलिन
श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्
 
अत्र नाध
 
व्याख्या
 
सन्ध्यावलिपटहतां सन्ध्यासमयभूतबलिप्रदानार्थ: पह
 
इत्याह । उत्तरश्लोकेऽपि अयंभावः ।
 
महाकाल सेवित्वा सेवोपकर
 
णानि तान्येव चामराणि धारयन्त्यः क्लान्तहस्ता देवदास्यस्तत्र बलि
प्रदानसमये नृत्यन्ति " इति । मल्लिनाधस्तु बलिशब्दस्य पूजार्थकता
माह बल्यङ्गत्वं वा पूजाङ्गत्वं वा नृत्यस्येत्यवधेयम् ॥
 
"
 
कावेर्यास्संभूतं यवनोपद्रवं वर्णयति
 
"
 
""
 
"
 
-
 
"
 
अतिलङ्घय चिरन्तनों स्वसीमा
 
मपदेष्वपितजीवनप्रवृत्तिः ।
मुहुरुत्पथगामिनी तुलुष्का
नधुना हाऽनुकरोति सह्यकन्या ।
 
11 6 11
 
अतीति ॥ सह्यकन्या कावेरी दक्षिणगङ्गेति प्रसिद्धा । कवेर
कन्येयमगस्त्येन कमण्डली धृता सह्यपर्वतसमीपे नदीत्वेन प्रावह
दित्येवमुच्यते । सा कर्त्री चिरन्तनीम् चिरकालोद्भवाम् बहुकाल
पक्षे ) स्वसीमाम् स्वीयमर्यादाम् ( तुरुष्कपक्षे ) स्वनिवासभूतं म्लेच्छ
सिद्धाम् परमेश्वरकृतामित्यर्थ: । (पक्षद्वयेऽपि सममिदम् ।) । (कावेरी
देशमिति च । 'सीमसीमे इमे क्षेत्रे । कूलमर्यादयोरपि' इति नानार्थ
 

 
रत्नमाला । सीमा च चतुर्विधेति
 
निघण्टुकाराः ।
 
देशसीमा ग्राम
 
सीमा क्षेत्रसीमा गृहसीमा - इति । 'डाबुभाभ्या' मिति पक्षे डाप् ।
ताम् अतिलङ्घ्य अतिक्रम्य (कावेरीपक्षे) मर्यादोल्लङ्घनं कृत्वेत्यर्थः ।
(तुरुष्कपक्षे) स्वदेशसीमामुल्लङ्घय स्वम्लेच्छदेशानतीत्येत्यर्थः । (कावेरी
पक्षे) अपदेषु अस्थानेषु अनुचितेषु स्थानेषु स्वस्थितेरननुकूलेषु दे
शेषु तुरुष्कपरिकल्पितेषु तेषु तेष्वपथेष्विति यावत् । 'पदं व्यवसित