This page has not been fully proofread.

श्रीः
 
मधुराविजयम्
 
भावप्रकाशिकाख्यव्याख्यासमेतम्
 
अष्टमसर्गः
 
अस्मिन् काव्ये प्रधानतया वर्ण्यमानस्य वीरस्य करुणरसमङ्ग
भावं प्रापयन्ती मधुरापुराधिदेवतां तदालम्बनं विरचय्य तद्विलाप
दीनवचनादिभिर्वीररसस्थायिनमुत्साहं कम्पराजे परिपोषयितुं समिम
 
मुपक्रमते कवयित्री । ( अत्र
 
सर्वप्रारम्भ एव त्रिंशश्लोकाः प्रायेण
 
लुप्ता इत्यभ्यूहितुं शक्यते । पूर्वकथासंगतिस्त्वेवम् ) [गङ्गादेव्याश्चन्द्रो
दयवर्णनेन समुद्दीपितरागो रसज्ञशेखरस्स्वप्रियां तां गाढपरिरम्भणादिभि
संभाव्य तथा सह क्रीडन् कुसुमतल्पे सुष्वाप । ततो निशीथ्यां
निरलङ्कारापि स्वतेजसा दीपयन्ती शुद्धान्तगृहान् बाष्पपर्याकुलनयना
विलुलितालका मलिनवसनं वसाना मूर्तिमान् करुण इव विद्राव
यन्ती पश्यतां हृदयानि, निजनिश्वासरुपदिशतीव स्तनतटयुगस्य नर्तन
• तैर्भु शमुद्विग्ना धर्मदेवतेव, प्राणेश्वरप्रवासमनुभवन्ती पतिदेवतेव,
क्रीडां, दृष्टिदोषशङ्कयेव निज़मुखचन्द्रमकलङ्कमधो नमयन्ती, धूर्तचेष्टि
वाताभिहता प्रशुष्यन्ती लतेव प्रत्यक्षयांबभूव काचिदङ्गनामतल्ली
कम्पराजमभि । हठात्प्रबुद्धस्स च राजा किमिदमिति विस्मयमान
 
स्तामालोकयन्नेवमवादीत्
 
"
 
-
 
- आयें! नूनमिदम्, दिव्यवनिता भवती ।
 
• किमुद्दिश्य कुतो वा निशीथेऽस्मिन् मद्भवनमुपगताऽसि भवति ?
किमनाथेव विलपन्ती दैन्यमवलम्बसि । कुतः किमागतं भयं भवत्याः ।
मत्तः किमभिलषसि ? शीघ्रमाज्ञापय मामिमम् । सत्यं प्रतिशृणोमि
 
त्वदभिलषितं भवतु
 
विश्वसिहि
 
यत्किमपि तदवश्यं साधयामि सद्यः ।
 
"