This page has not been fully proofread.

484
 
मधुराविजये
 
इतीति ॥ शेषं सर्वं पूर्ववत् । इति अपरिसमाप्तस्यापि सगँस्य
परिसमाप्ति बुद्धया संभाव्य ' इति परिसमाप्तः' इत्युच्यत इतीदानीं
वेदितव्यम् । चन्द्रोदयः चन्द्रस्य उदयनम् आविर्भावः प्रकाशः तस्य
कीर्तनम् प्रशंसा वर्णनम् " ईट्टे वर्णयति स्तौति स्तुते नौति प्रशंसति ।
वन्दते कीर्तयति च श्लाघते चाभिनन्दति
 
इति
 
क्रियानिघण्टुः ।
 
अन्धकारनक्षत्रोदय प्रशंसात्वेतदङ्गतयैव प्रवृत्तेति नात्र तयोः पृथक्कीर्त
नम् । नामेति प्रसिद्धौ । उदितचन्द्रप्रस्तुत्या सुविदितः इत्यर्थः । सप्तमः
सप्तसंख्यापूरकः । पूरणे डट् मट् च । ( सर्गः इति ) इति तु विशेषः ॥
 
"
 
इति
 
श्रीपरमेश्वरी कृपासमुपलब्धशास्त्र साहिती वैदुष्य
'साहित्यालङ्कार'
 
'विद्वत्कवीशान '
 
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
 
काव्यकलानिधि' 'महीनूरमहाराजास्थानमहाविद्वत्कवि'
 
6
 
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
श्रीगङ्गादेव्याः कृतो मधुराविजये महाकाव्ये
चन्द्रोदयवर्णनं नाम
 
सप्तमसर्गः