This page has not been fully proofread.

सप्तमसर्गः
 
स्वसौभा
 
कलयामीति ॥ क़लानिधिः चन्द्र विद्वान् विवेकीति च
गम्यते । भवदीयम् त्वदीयम् कम्पराजीयमित्यर्थः । मुखमेव अम्बुजम्
आननपद्मम् तस्य श्रीः शोभा स्त्रीति गम्यते । तथा । अस्मीत्यह
मर्थेऽव्ययम् । अहमित्यर्थः । विजितः पराजितः । सहज़वैरिणा तत्रापि
स्त्रियेति भावः । पद्मानां च चन्द्रस्य च प्रकृतिसिद्धो वैरः । तं
जेतुकामा पद्मिनी तपस्तप्त्वा दैवतानुग्रहसंपादनेन कम्पराजमुखा
परिणता । मुखपद्मस्य शोभा चन्द्रं तृणीकरोति
ग्येन । चन्द्रगुणाः प्रसन्नतादयः पद्मगुणास्सौरभादयश्चास्मिन् वर्तन्त
इति पद्मसौरभादिहीनश्चन्द्रोऽनया मुखपद्मश्रिया विजितः । राजखमुपद्मा
च्छोभया निकृष्टो जातः पराजित इति परमार्थ: । इति एतस्माद्धेतोः
ह्रिया मनस्संकोचरूपया व्रीडया । व्यथाम् बाधाम् वैरिपराभवजनि
तत्वेन दुर्भराम् । मनस्किलानिधित्वाच्चेति भावः । हृदि हृदये
अन्तः अन्तरा चेति गम्यते । कलङ्कः लाञ्छनम् स्वप्रख्यापकं चिह्नम्
व्याज: वस्तुतस्तु न तथा दुःखमेवेत्यर्थः ।
धारयते धरति वहति । नियतम् ध्रुवम् । कलयामि इति जानामि ।
 
इति कैतवः
 
ताम् ।
 
श्रिया चन्द्रश्रिया च
 
स्वप्रियस्य
 
विराजमानं सदप्रतिद्वन्द्व भ्राजते
 
मुखमिति स्वानुरागं तस्मिन् प्रकाशयति कवयित्रीयम् । अत्र
 
463
 
ह्न तिमूला द्रव्योत्प्रेक्षाऽलङ्कारः ।
 
कलङ्कत्वापह्न त्या कलङ्केऽस्मिन्
 
व्यथात्वसंभावनात् । अत्र वृत्तं न विपरिणमितमिति सस्य परि
 
-शिष्टता ज्ञायते ॥
 
इति
श्रीगङ्गादेव्या विरचिते
मधुराविजयनाम्नि वीरकम्परायचरिते
 
चन्द्रोदय कीर्तनं नाम
सप्तमसर्गः
 
I