This page has not been fully proofread.

460
 
मधुराविजये
 
त्सादृश्ययोरपि' इत्यमरः । पञ्चम्यास्तसिः । चन्द्रस्य सूर्येण
दर्श स्थिति देवीपुराणमित्थं वर्णयति – "कलाप्षोडश सोमस्य शुक्ले
वर्धयते रविः । अमृतेनामृतं कृष्णे पीयते दैवतैः क्रमात् ॥ कलाव
शिष्टो निष्पीतः प्रविष्टस्सूर्यमण्डलम् । अमायां विशते रश्मौ अमा
वासी ततस्स्मृता
इति । तपनात् सूर्यात् तपतीति ल्युः । तपिर
न्तर्भावितण्यर्थः । अतएव 'तपनस्तापनो रविः' इति संसाराणवः ।
तापजनकात् सूर्यादिति यावत् । तापिनीम् तापयतीति कर्तरि ल्युट् ।
टित्वान्ङीप् । संतापकारिणीमित्यर्थः । तादृशीम् शक्तिम् सामर्थ्य
'कासूसामर्थ्ययोश्शक्तिः' इत्यमरः । ताम् अवाप प्राप ।
 
नियतम्
 
ध्रुवमित्युत्प्रेक्षावाची । चन्द्रोऽयं शीतांशुरपि वियोगभाज: स्त्रिया
वती करोतीति सूर्येण सहस्थितिवेलायामनेन तपनस्य तस्य
प्रयत्नेन समुपलब्धा । नोचेदस्य सुधामूर्तः कथं वा विरहित
कारित्वमिति तात्पर्यार्थ: । विरहिजनमारकोऽयं वर्तत इति रागो
कतास्य दुर्भरेति परमार्थ: । अत्र वियोगिनीबाधकतायास्स्वतस्सिद्धाया
त्प्रेक्षेयम् । काव्यलिङ्गं च तदुज्जीवकमित्येतयोस्करः। नैषधे श्री
स्तपन सहस्थितिसमुपलब्धशक्तिकत्वेन संभवनं संभाव्यत इति क्रियो
हर्षोऽपि चन्द्रमेवं वर्णयति - " प्रतिमासमसौ निशाकरः खग संयच्छति
महिनाधिपम् । किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः " इति ॥
 
"
 
2
 
चन्द्रकलङ्कोऽद्य त्रिभिश्श्लोकैरित आरभ्य प्रस्तूयते
 
अलिवि भ्रममन्तरेति य
 
नविधोस्तन्मृगलक्ष्म किन्त्वयम् ।
पुरजिद्रथचक्रताजितो
 
बहल: क़ज्जललेपक़ालिमा ॥
 
अलोति ॥ विधो: चन्द्रस्य चन्द्रबिम्बस्येत्यर्थः । अन्तरा मध्य
 
-
 
50 11