This page has not been fully proofread.

457
 
सप्तमसर्गः
 
कौमुद्येव कौमुदीमयम् । स्वार्थे मयट् । ज्योत्स्नारूपम् क्षौमम् दुकू
लम् धवलपट्टवसनम् । ' क्षौमं दुकूलं स्यात् ' इत्यमरः । तत् ।
दधती घरन्ती तेन वसनालङ्कारेण समलङ्क तेत्यर्थः । अभात् व्यरा
जत । भा दीप्तौ – लङ् । प्राग्दिशा महाराज्ञीव स्वसख्येव रात्र्या
शङ्खपेटकादिव चन्द्रादुद्धत्य दत्तं क्षौमदुकूलमिव कौमुदीं कुमुदच्छव
वहतीति वर्ण्यते । तत्न दिशादिष्वङ्गनात्वादिरूपणं क्षपया सख्येत्य
र्थादाक्षिपतीत्येकदेशविवर्तिरूपकमलङ्कारः ॥
 
हरितं परिरभ्य वासवीं
हरिणाङ्क: करपातलीलया ।
स्पृशति प्रणयात्कुमुद्वतीं
बत विश्वासपदं न कामिनः ॥
 
11 47 11
 
हरितमिति ॥ हरिणाङ्कः मृगाङ्कः चन्द्रः। कलङ्कीति गम्यते ।
सः कर्ता । करपातः स्वकिरणप्रसार: तस्य लीला व्यापार: स्वकिरण
व्याप्तिरित्यर्थः । तेन । सविलासस्वहस्तप्रसारेणेति च गम्यते । वास
वीम् हरितम् ऐन्द्रीम् दिशम् प्राचीमित्यर्थः । 'साऽस्य देवते' त्यण् ।
अण्णन्तत्वात् ङीप् । इन्द्रप्रियामिति च गम्यते । 'पुंयोगादाख्याया'
मिति ङीष् । परिरभ्य आश्लिष्य आच्छाद्य । परिष्वज्येति गम्यते ।
कुमुद्वतीम् कुमुदिनीम् । अपरां नायिकामिति च गम्यते । प्रणयात्
अनुरागात् याच्यादैन्यमवलम्ब्येति च गम्यते । 'प्रणयास्त्वमी विस्र
म्भयाच्ञाप्रेमाणः' इत्यमरः । करपातलीलयेत्यत्रापि संबध्यते । स्पृशति
स्म पस्पर्श स्वकिरणान् तत्रापि प्रासारयदित्यर्थः । स्वकरप्रसारं
तत्रापि प्रावर्तयदिति च गम्यते । अतएव कामिनः कामुका काम
वशंवदा: पुरुषाः । विश्वासपदम् वित्रम्भस्थानम् स्त्रियां ममायमिति
•विश्वसनीयान भवन्ति । 'अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ती ' ति महा
भाष्यकाराः । तेषू प्रणयनैश्चल्यं मृग्यमिति भावः ।
 
बतेति खेदे ।