This page has not been fully proofread.

सप्तमसर्गः
 
भूतैः । चूषयति पाययति । इवेति संभावनायाम् । स इव स्थित
इत्यर्थः । चूष पाने – हेतुमण्ण्यन्ताल्लट् । " पिबत्याचामति धयत्यपि
चूषति पीयते । पाने " इति भट्टमल्लः । उदयपर्वताग्रावलम्बी चन्द्र
स्स्वकिरणान् दीर्घान् प्रसार्य नभोगतं सर्वमन्धकारमन्तर्धापयति ।
 
एवमुत्प्रेक्ष्यतेऽयमेवार्थः। यथा नायकः
 
कश्चन स्वनायिकां शिरसि
 
गृहीत्वा मुखेन मद्यं पाययति तद्वदयं चन्द्रोऽप्युदयाचलमौलि नायिकां
कृत्वा तत्रोच्चैस्स्वकरप्रसरणेन तस्या अग्रभागमेव तन्मुखं परिकल्प्य
सर्वत्राकाशे व्याप्तं नीलं तम एव मद्यं च विधाय तदाश्रयं नभ
एव नीलमणिमयं मद्यभाजनं निर्माय चन्द्रकिरणस्तिमिरान्तर्धापनमेव
मद्यपानं कृत्वा नायिकां मद्यपानेनायं संभावयतीति वर्ण्यते । अत्र
तिमिरापसरणे मद्यपानसंभावनेति क्रियोत्प्रेक्षा साचाम्बरादिषु मद्य
पात्रत्वादिसमारोपमुलेति के संकीर्यते । प्रकृत्या लज्जावतीनां
स्त्रीणां संभोगकाले तदपनोदनाय मद्यपानं नायकाः कारयन्ति ताः ।
अतएव पार्वतीपरमेश्वरश्वङ्गारवर्णनावसरे कालिदासः " इत्युदारमभि
घाय शङ्करस्तामपाययत पानमम्बिकाम् " इत्याचष्टे ॥
 
अलिनोलमयस्तमोमयं
प्रविलाप्योदयरागवह्निना ।
क़लयत्ययमोषधीश्वरः
 
कलधौतं शुचि कौमुदीमिषात् ॥
अलीति ॥ अयम् निर्देशवाची । नेत्रगोचरः । ओषधीश्वरः
• एव लोहात कलधौतसंपादनं संघटतेऽस्मिन् । सः कर्ता । तमोमयम्
ओषधिपतिः तन्नायकः चन्द्रः । ओषधिसिद्ध इति च गम्यते । अत
 
तमः अन्धकारः ।
 
'चिन्मय' मित्यादाविव स्वार्थे मयट् । तदेव ।
 
अलिः
 
इति यावत् ।
 
45 5
 
"
 
"
 
11
 
45 11
 
भृङ्गः तद्वत् नीलम् अतिमलिनम् अयः लोहम् किट्टितमय
 
लोहोऽस्त्री शस्तकं तीक्ष्णं पिण्डं कालायसायसी'