This page has not been fully proofread.

454
 
मधुराविजये
 
च तदन्धकारपरम्परा
 
सुष्ठु
 
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका " इति । चन्द्रकिरणा: प्राच्या
गाढं प्रसरन्ति । तत्रत्या घनीभूता
तत्किरणसंपृक्ता पृथक् पृथक् दूरतोऽपसरति । अमुमेवार्थं स्वप्रौढोक्त्या
- प्रवासी नायक इव बहुतिथे काले समागतचन्द्रस्तिमिरपरम्परयैक
वेणीधारा प्रोषितभर्तृका नायिकेव स्थितां प्राचीं स्वोदयेन (
मेनेव) समाश्लिष्य नखैरिव स्वकिरण: वेणीमोचनमिव तमोमोचनं
कुर्वन् नायिकामिव प्राचीमनुगृह्णातीति वर्णयति कवयित्री । अवयवा
वयविनोस्सामस्त्येन रूपणमत्त्रेति समस्तवस्तुविषयकं रूपकमलङ्कारः ॥
 
प्रथमाचलमौलिमुच्चकै
रधिरुह्याम्बरपात्रसंभृतम् ।
अयमंशुमृणालिकामुख
 
स्तिमिरं चूषयतीव चन्द्रमाः ॥
 
प्रथमेति ॥ अयम् पुरतो दृश्यमानः ।
 
चन्द्रः ।
 
कर्ता । प्रथमः पूर्व अचल: अद्रि पूर्वाचल: उदयपर्वतः तस्य मौलि
शिखा तदाधारः अग्रभागः शिखरम् । तत् नायिकामिति च गम्यते ।
अतएव ' मौलि' शब्दनिर्देशः । मौलिशब्द स्त्रीलिङ्गोऽपि
किरीटे धम्मिल्ले चूडायामनपुंसकम्' इति मेदिनी । उच्चकैः उच्चैः
 
। " मौलिः
 
चन्द्रमाः
 
अधिकम् । बाढम् सम्यक् ऊर्ध्वभागे इति च गम्यते ।
आरुह्य अवलम्ब्येति ग़म्यते । सकचग्रहणं कृत्वेत्यर्थः ।
भागं सम्यगारुह्यति प्रकृतार्थ: । अम्बरम् आकाशः तदेव
भाजनम् इन्द्रनीलमाणिक्यनिर्मितं मद्यकलशमित्यर्थः । तत्र
 
संभृतम्
 
निश्चलम् परिपूर्णम् । तिमिरम् अन्धकार तदेव मद्यमिति गम्यते ।
तत् कर्म । अंशव एव मृणालिकाः बिसाङ्कराः । अल्पा मृणाला
तेषाम् मुखानि अग्रभागाः तान्येव मुखानि वक्त्राणि । तैः
मृणाल्यः । अल्पार्थ ङीष् । ता एव मृणालिका । स्वार्थे कः । ह्रस्वः ।
 
करण
 
अधिरुह्य
पर्वतोपर
 
पात्रम्