This page has not been fully proofread.

सप्तमसर्गः
 
प्रभौ च नृपतौ क्षत्रिये रजनीपतौ' इति मेदिनी । आदृतैः आद्रि
यमाणैः सर्वजनैः पूज्यमानैः । अर्थ्यमानैरिति च गम्यते । मृदुभिः
कोमलैः प्रसन्नैः आह्लादकैः। अतीक्ष्णैः अबाधाजनकैरिति च गम्यते।
'मृदू चातीक्ष्णकोमले' इत्यमरः । करैः किरः । बलिभि: राज
ग्राह्यभागैरिति च गम्यते । 'बलिहस्तांशव: कराः' इत्यमरः । तैः
 
अत्र स्वतीक्ष्ण
 
करणभूतैः । तान् द्वारीकृत्येत्यर्थः । उदशिश्वसत् समतोषयत् सूर्यकिरण
संतप्तं लोकं शीतलस्वकिरणप्रसारेण महान्तमानन्दमनुभावयामासेत्यर्थः ।
अभिवर्धयामासेति च गम्यते । दुर्भ: करै: पीड्यमानान् निस्स्वान्
राष्ट्रजनान् समुचितक़रग्रहणेन परबाधापनयनेन च स्वयमभिवर्धया
मासेत्यर्थः । टु ओ श्वि गतिवृद्धयोः ण्यन्ताल्लुङ् ।
करै: प्रजास्संताप्य सूर्येऽस्तमिते स्त्रशीतलकिरणैस्तत्परितापं त्याजयं
वन्द्रोऽयं लोकरञ्जकस्सन्न दियायेति प्रकृतार्थ: । कश्चिद्राजा तेजस्वी
परेभ्य: प्रजा रक्षन्नपि दुर्भरकरग्रहणेन संपीडयन् निर्धनाः कृत्वा बाधते
स कालवशमापनो गतोऽस्तम् । प्रजाश्र्व परराजाक्रमणादिना
दुःखायमाना वर्तन्ते । तदा कश्चिद्राजा नवोदयं प्राप्य तासां
 
ताः ।
 
• राजा सन् समुचितकरग्रहणेन भृशमानन्दयंस्ता अभिवर्धयामासेत्य
 
प्रकृतोऽर्थः ।
 
अत्र प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणि
 
न च समासोक्तिः
 
२ च
 
प्रतिपत्ति कर्तुमिति 'राजवदयं राजेति शब्दशक्तिमूलो ध्वनिः ।
श्लेषः । उअयश्लेषे विशेष्यश्लेषायोगात् ।
व्यवहारमात्र समारोप एव तदुत्थानात् ॥
अथ कवयित्री चन्द्रोदयमिमं स्वशृङ्गारस्याङ्गतां नेतुकमा तदर्थे
 
उपक्रमते
 
भीता
 
-
 
अथ कम्पनूपोऽपि कृत्यवि
त्कृतसन्ध्यासमयोचितक्रियः ।
 
447