This page has not been fully proofread.

70)
 
सप्तमसर्गः
 
रागश्च भृशं बभूव । तेन साकं दर्शयति स्वाकारं सर्वजनाह्लादकं
सुप्रसन्नं किश्चिच्चन्द्रमाः । उदयरागयुतोऽयं चन्द्रः ( बिम्ब: ) पूर्वदिगग्र
भागे दृश्यमानो विराजते प्राचीनायिकाधूतललाटकुङ्क मचित्रकमिवेति
तात्पर्यार्थः। अत्र वपुष्यैन्दवे प्राचोदिगङ्गनाललाटचित्रत्वं प्राचीमुखे
तन्मुखत्वमित्याद्यारोप इति रूपकमलङ्कारः । सिन्दूरललामत्वं च
वपुषो विशेषणत्या 'आर्द्रोदयरागलोहित पदार्थेन समर्थ्यत इति
काव्यलिङ्गमस्य जीवातुः । अत एवानयोस्संकरः ॥
 
'
 
प्रवृद्धोदयरागं चन्द्रबिम्बं वर्णयति –
 
परिपिण्डितयावकारुणं
 
प्रचकाशे हिमरश्मिमण्डलम् ।
रचितं नवरक्तसन्ध्यकै
विजयच्छत्रमिवात्मजन्मनः ॥
 
11
 

 
37 11
 
सम्यक् कृतकबल
 
लाक्षा
 
परीति ॥ परिपिण्डितः सुष्ठु कबलितः
इत्यर्थ: । तादृशः यावकः लाक्षा तद्वत् अरुणम् रक्तवर्णम्
कबलवद्वर्तलं रक्तवर्णं चेत्यर्थः । हिमरश्मिमण्डलम् बिम्बाकारश्चन्द्रः ।
कर्तृ । नवानि सद्यो विकसितानि रक्तसन्ध्येव रक्तसन्ध्यकानि । इवे प्रति
कृता' विति कन् । तानि हल्लकानि रक्तवर्णसौगन्धिकानि। 'हल्लकं रक्त
सन्ध्यक' मित्यमरः । तैः विरचितम् निर्मितम् । आत्मनि मनसि
जन्म जननम् उदयः यस्य तस्य आत्मजन्मनः मनोजस्य मन्मथस्य
विजयातपत्रम् सार्वभौमचिह्नम् तदिवेति संभावना ।
● प्रकाश अधिकं भ्राजते स्म । प्रपूर्वात् कासृ दीप्ती इत्यस्माल्लिट् ।
 
विजयच्छत्त्रम्
 
तदानींतनं
 
उद्दीपन विभावश्चतुर्धा
 
तत्र चन्द्रोऽपि परिगणितः ।
 
चन्द्रबिम्बं सुष्ठु रागोद्दीपकं सत् मन्मथं सर्वलोकविजयिनं करोति ।
तदेवमुच्यते सचमत्कारम् । उदयरागरूषितं चन्द्रबिम्बं सर्वलोकविज़