This page has not been fully proofread.

सप्तमसर्गः
 
शब्दं विदग्धमुखमण्डनकारा' - ' करेटुकोककुररिकलहंसकरम्बित' इति
प्रायुञ्जत । तादृशम् । तमः कचभारम् तमः अन्धकार एव कच
भार: केशपाशः तम् । दधती बिभ्रती । 'नाभ्यस्ताच्छतु' रिति न
 
नुम् ।
 
किश्च । कुमुदम् कैरवम् श्वेतोत्पलम् । ईषद्विकसितमित्यर्थः ।
 
' सिते कुमुदकैरवे' इत्यमरः ।
 
तदेव स्मेरम् स्मयमानम् ईषद्धसत्
 
मुखम् यस्या इति 'स्वाङ्गा' च्चेति ङीष् । स्मितयुतमुखपद्य त्यर्थः ।
स्मितस्य तु लक्षणमेवमुक्तम् - " ईषद्विकसितैर्दस्तैः कटाक्षैस्सौष्ठवा
न्वितैः । अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् " इति । एवंविधा
सती । निशाकरम् चन्द्रम् तमेव स्वप्रियम् अचिरात् अविलम्बितम्
शीघ्रम् । सोत्कण्ठेति भावः । अन्वपालयत प्रतीक्षांचक्रे । "प्रतीक्षते
प्रतीक्षायां स्युरागमयते तथा अनुपालयतीत्येते प्रतिपालयतीति च "
इति भट्टमल्लः । काचिन्नायिका पुष्पैस्स्व केसाशमलंकृत्य मन्दस्मित
वदनारविन्दा स्वनायकं यथा सोत्सुका तिरीक्षते तद्वदेवेयं निशेति
नक्षत्राणि बहुसंख्याकानि विशदानि भूत्वा तिमिरमाच्छाद्य.
नभसि भ्राजन्ते । अतएव च कुमुदानीषद्विकसितानि वर्तन्ते । रात्रिः
कान्तिमती शोभायमाना वर्तते । अचिराच्चन्द्रोदयो भविष्यतीति
सारांश: । स्मेरमुखत्वादय इमे नायिकागतमनुरागं बहिः प्रकाशयन्तो
नुभावा भूत्वा नायके निश्चलां रति सम्पादयिष्यन्त एतदीयश्शृङ्गा
 
भावः ।
 
राङ्गतां भजन्त इत्यवगम्यते ।
निशीथिन्यादिषु
 
अत्र तमसि कचभारत्वाद्यारोपोऽयं
 
नायिकत्वाचारोगतीत्येक देशविवर्तिरूप कमल
 
(1
 
ङ्कारः । नायिकाचेयं वासकसज्जिका
मण्डयत्येष्यति प्रिये " इति तल्लक्षणात् ॥
 
मुदा वासकसज्जा स्वं
 
चन्द्रोदयं वर्णयितुं प्रक्रमते-
-
 

 
-
 
441
 
तदनु क्षणदाग़मोल्लस
तकलशाम्भोनिधिवोचिरोचिषः ।
 
:
 
G