This page has not been fully proofread.

69)
 
सप्तमसर्ग:
 
437
 
द्धानि तानि स्तम्बकरयो भूत्वा फलन्ति । तेन धान्यं लभते
तथाऽयमपि `कालश्चन्द्रिका संपादने कृतप्रयत्नस्तिमिरं दिक्षु व्यापयत् ।
आकाशं सर्वं तेन कलुषितं चाकरोत् । तथा कृत्वा तत्र समुद
पादयन्नक्षत्राणि । उत्पन्नानि चैतानि रक्षयंस्तदभिवृद्ध्या चन्द्रिकामित:
परमचिरादेव संपादयिष्यतीति परमार्थः । अत्र कालकृतनक्षत्रोदयने
कर्षककृतबीजवपनं संभाव्यत इति क्रियोत्प्रेक्षा । कालादिषु कर्षकत्वादि
रूपणं चास्यास्स्वरूपाधायकमिति रूपकेण साकं संकरोऽस्याः ॥
 
अहरत्ययराग़पल्लव
 
स्तमसा कन्दलितो नभस्तरुः ।
सृजति स्म निरन्तरं हरि
द्विटपैस्तारककोरकावलिम् ॥
 

 
अहरिति ॥ नभः आकाशः स एव तरुः वृक्षः । कर्ता ।
तमसा अन्धकारेण सूर्यास्तमयानन्तरभाविना कन्दलितः संजातकन्दल:
अङ्कुरितः । तथाभूतस्सन् । किञ्च । अहरत्ययः सायंकालः सायं
सन्ध्या तस्य रागा: रक्तिमानं त एव पल्लवाः किसलयानि यस्मिन्
स. तथोक्तः । पल्लवित इत्यर्थः । तथाविधस्सन् । हरितः दिशः ।
 
ता एव विटपा: वृक्षावयवाः
शाखासु सर्वत्रे
 
आशाच हरितश्च ताः' इत्यमरः ।
शाखा: तैः । निरन्तरम निरवकाशं यथा तथा ।
त्यर्थः । तारका नक्षत्राणि ता एव कोरका मुकुलानि तेषाम् आव
लिम् पक्तिम् समूहम् सृजति स्म उत्पादयति स्म बहि
मास कोरकितोऽभवदित्यर्थः । "सृजत्युत्पादयत्यपि " इति भट्टमल्लः ।
'लट स्म ' इति लट् । 'हरिद्विटपै रित्यनेन नक्षत्राणां दिक्षु
सर्वासु सर्वतोमुखव्याप्तिः कथिता । वृक्षो यथा पुष्पितुं प्रथमतो
कुरान् तदनन्तरं पल्लवान् ततः कलिकाः स्वस्मिन् धत्ते तथाs
काशोऽपि पुरस्तात्तमः ततस्सन्ध्यारागः ततो नक्षत्राणि वहतीत्यङ्क
 
(
 
S
 
30