This page has not been fully proofread.

सप्तमसर्गः
 
श्यामकालश्यामलमेचकाः'
नीलस्स्यादतसीपुष्पसंनिभः'
 
इत्यमरः । शब्दार्णवे तु – 'मेचक: कृष्ण
इत्युक्तम् । लोके कांस्यपात्रं चन्दनेन विलिप्य
दीपोपरि निक्षिप्यते । दीपाग्निना शुष्कं सत्तच्चन्दनं मषीरूपतामेत्य
तत्पात्रात्स्स्रंसते । तदेव कज्जलम् । तद्वदिदानीं दीपकान्त्येव सूर्य
कान्त्या परितप्तं सत् चन्दनलिप्तं पात्रमिव शरन्मेघादिभिर्धवलं
विशालं चाम्बरं मषीरूपेण तमः पुञ्ज कज्जलमिव विगलयतीत्यव
गन्तव्यम् । तथाविधम् । निरन्तरम् निरवकाशम् निबिडम् सान्द्रम्
तमः अन्धकारः। कर्तृ । जनस्य प्रजायाः । जातावेकवचनम्। जना
नामित्यर्थः । तेषाम् नयनानि नेत्राणि ।
कर्म । तत्क्षणात् सद्यः
अल्पकाल एवेत्यर्थः ।
निरुणद्धि स्म अवरुरोध प्रतिबबन्ध दृष्टि
निरोधं जनानामक़ल्पयदित्यर्थः । रुधिर् आवरणे - 'लट् स्म' इति
रविदीपेत्यादि
 
लट् ।
 
अत्र तमः कर्तृकजनदृष्टिनिरोधजननरूपवाक्यार्थे
 
पदार्थो विशेषणगत्या हेतुतामापन्नस्समर्थनीयमर्थं समर्थयतीति काव्य
लिङ्गमलङ्कारः । अस्य च ' रविदीपे' त्यादिरूपकमुपमाङ्गतया समु
 
पक़रोतीत्यनयोस्लंकरः ॥
 
नक्षत्रोदयः प्रस्तूयते
 
-
 
तदमंसत मांसलं तम
 
स्तनुतारागणबिन्दुजालकम् ।
दिवसात्ययचण्डताण्डव
 
च्युतमीशस्य गजाजिनं जनाः ॥
 
11 27 11
 
कर्तारः । तनवः
 
प्रजाः ।
 
सूक्ष्मा: विरला ।
 
तनुः काये त्वचि स्त्री स्यात्विष्वल्पे विरते
 
कृशे' इति मेदिनी । तारा: नक्षत्राणि । तेषाम् गण: समूह ।
बिन्दुजालकम् पद्मकम् गजमुखादिस्थ बिन्दुसमूहः । तद्वत्
 
तारागणः
 
तदिति ॥ तत् तदा । जनाः
 
"
 
433