This page has not been fully proofread.

432
 
मधुरा विजये
 
दने – लिट् । अन्धकाराः क्रमतः
तत्र तत्र दीर्घाकारा स्थूलाच
 
प्रवृद्धा आकाशमावृण्वन् । आकाशे
तमःपुञ्जास्ते, तत्र तत्र
 
खण्डश:
 
स्थौल्येन च बहुधा स्थिता: प्रवाहा इव दृश्यन्ते । नीलवर्णास्तेऽति
प्रवृत्तायाः कालिन्द्याः वलरामलाङ्गलाकृष्टायाश्शतवा प्रवृत्ताः कृष्ण
वर्णा: प्रवाहा इव स्थिता इत्युच्यन्ते । अलङ्कारश्चात्रोपमा । ( कालिम )
'द्रुह' इत्युपमावाचकश्शब्दः । अतएव - " स्पर्धते जयति द्वेष्टि
द्रुह्यति प्रतिगर्जति " इत्युपमावाचकेषु दण्डी । उपमानं च पुराण
प्रसिद्धम् । अत्र भागवतम् - "स
मीश्वरः । निजवाक्यमनादृत्य मत्त इत्यापगां बलः । अनागतां हला
आजुहाव यमुनां जलक्रीडार्थ
ग्रेण कुपितो विचकर्ष ह। पापे त्वं मामवज्ञाय यन्त्रायासिया
हुता ॥ नेष्ये त्वां लाङ्गलाग्रेण शतथा कामचारिणीम् । एवं निर्भ
 
त्सिता भीमा यमुना यदुनन्दनम् ॥ उवाच
 
इत्यादि ।
 
...
 
नयनानि जनस्य तत्क्षणा
 
निरुणद्धि स्म निरन्तरं तमः ।
रविदीपभृताभ्रकर्पर
 
च्युतकालाञ्जन पुञ्जमेचकम् ॥
 
"
 
"
 
26 11
 
नयनानीत्यादि ॥ रविः सूर्यः स एव दीपः प्रदीपः गृह
 
मणिः । ' दीपः प्रदीपः इत्यमरः । तेन भृतः धृतः । पोषित इति
च गम्यते । भृञ् धारणपोषणयोः - कर्मणि क्तः । तथाविधः अभ्रम्
 
आकाश एव कर्पूरः कटाहः विशालं
 
स्याच्छस्त्रभेदकपालयोः' इति हैमः । तस्मात् च्युतम् गलितम काला
पात्रम् । 'कर्परस्तु कटाहे
 
ञ्जनम् कृष्णवर्णमषीरूपं कज्जलम्
 
कालाञ्जनं नाम
 
चक्षुषोः
 
कान्तिप्रदं मङ्गलार्थं स्त्रीभिध्रियमाणं कृष्णवर्णमञ्जनविशेषभूतम् ।
'अञ्जनं कज्ञ्जले चाक्ती सौवीरे च रसाञ्जने' इति सुधा । तस्
पुञ्ज समूह राशि: तद्वत् मेचकम् विनीलम् । 'कृष्णे नीलासित