This page has not been fully proofread.

88)
 
सप्तम सर्गः
 
सान्ध्य
 
त्क्षिप्ता आकाशे विराजमाना: प्रवाला इव सान्ध्यतेजांसि सुप्रसन्ना
न्यरुणानि च भूत्वा नभसि व्याप्तानीति सारांशः। अत्र
तेजस्सु समुद्रोत्थितप्रवालत्वसंभावनेति द्रव्योत्प्रेक्षा । नवपल्लवकोमलेल्यु
पमा चास्यां साम्यसंपादनेन चरितार्थेति सङ्कीर्यतेऽनया ॥
 
अन्धकारं वर्णयति
 
.
 
-
 
उदियाय ततो दिगङ्गना
 
श्रवणाकल्पतमालपल्लवः ।
 
रजनीमुखपत्र लेखिका
रचनारङ्क मदस्तमोऽङ्करः ॥
 
23
 
"
 
(429
 
उदियायेति ॥ ततः
 
अनन्तरम् सन्ध्याकाले समतिक्रान्ते
अन्धकार
 
इत्यर्थः । तमोऽङ्करः - अङ्करम् अभिनवोद्गम: तद्वत्तमः
इत्युपमितसमासः । अतिकोमलम् सूक्ष्मम् तिमिरमित्यर्थः सः कर्ता ।
दिश: आशा ता एव अङ्गनाः स्त्रियः । तासाम् श्रवणयोः कर्णयोः
आकल्प: भूषणम् श्रवणावतंसः कर्णपूर इत्यर्थः । तथाविध: तमाल
 
पल्लव:
 
इत्यमरः । तथाभूतः दिशायुवतिकर्णभूषायितनीलतमालपल्लववद्विराज
 
तापिञ्छकिसलयः ।
 
कालस्कन्धस्तमालस्स्यात्तापिञ्छोऽपि '
 
मान इत्यर्थ: । किश्च । रजनी रात्रि: सैव नायिका तस्याः मुखम्
आननम् तदेकदेशभूतं कपोलादि । लेखैव लेखिका । स्वार्थे कः ।
पत्ताकारा लेखिका पत्रलेखिका पत्राङ्गलिः कपोलादौ विरचितानि
मकरिकापत्राणीति यावत् । ' पत्रलेखा पत्राङ्ग लिरिमे '
तस्य रचना विन्यास लेखनम् तदर्थ रङ्क, मद मृगमदः
स इव स्थित इत्यर्थ: । रात्रिरागमिष्यति । सा च चन्द्रप्रिया नायिका ।
तदागमनं सूचयन् सूक्ष्मः कोमलोऽन्धकार प्रथमतस्समुत्पन्नः ।
मन्धकारश्च रात्रिनायिकया कर्णपूरतया धारणार्थं कल्पितो नवतमाल
 
इत्यमरः ।
कस्तूरी
 
अय