This page has not been fully proofread.

1428
 
मधुराविजये
 
तस्याः
पादौ
 
गच्छन्ती । स्वप्रियं निशाकरं सेवितुमिति भावः । विभावरी रात्रिः
प्रियेति गम्यते । 'विभावरी तमस्विन्यौ रजनी यामिनी तमी'
इति रात्रि पर्यायेष्वमरः । 'पुंवत्कर्मधारये ' ति पुंवद्भावः ।
पदयोः पादयोः लाक्षापटलम् अलक्तकसमूहः अलङ्करणार्थं धृतः
तिरोधाय स्थित इत्यर्थः। तम् अनुकुर्वन्ती अनुसरन्ती तेन सदृशी
भवन्तीति णिनिः । तादृणास्सन्तः वियति आकाशे
वापि पुंस्याकाशविहायसी' इत्यमरः । व्यरुचन् प्राकाशन् । विपूर्वात्
रुच दीप्तावित्यस्माल्लुङ् । चन्द्रप्रिया रात्रिनायिका प्रियसमागमार्थं निज
पादौ लाक्षया रञ्जितौ कृत्वा समायातीति त (त्पद) ल्लाक्षारसकान्तयो
मेघोपरि पतत्यः तान् रक्तवर्णानकरोत्किमित्युपमोपक्रमस्वरूपोत्प्रेक्षेयम् ॥
 
वियद्विष्णुपदं
 
नवपल्लव कोमलच्छवि
 
दिवि सान्ध्यो ददृशे महोभरः ।
रविपातरयात्समुत्थित
 
श्वरमाब्धेरिव विद्रुमोत्करः ॥
 
(
 
11
 
28 11
 
नवेति ॥ दिवि आकाशे । नवपल्लवा: सद्यो जाताः
 
किस
 
लया: । अनेन सौकुमार्यातिशयः आरुण्यातिशयश्च तेषु कथ्यते । तद्व
 
त्कोमला: मनोहरा: छवयः कान्तयः पल्लवारुणाः
 
पल्लवमनोज्ञा
 
रवेः
 
स्तत्कान्तय इत्यर्थः । तथाविधा: यस्मिन् तथोक्तः । तादृशः सान्ध्य
सन्ध्यायास्संबन्धी अण् । महोभरः तेजोऽतिशयः । कर्म ।
सूर्यस्य पात: पतनम् पश्चिमसमुद्रे निपतनम् तस्य रयः बेग़ः सवेगं
पश्चिमसमुद्रनिपतनमित्यर्थः । तस्मात् समुत्थितः समुद्गतः
•लितः । समुद्रादाकाश प्राप्त इति भावः । तथाविध विद्रमोत्करः
प्रवालसमूहः स इवेत्युत्प्रेक्षा । समुद्रस्य रत्नाकरत्वादेवं संभाव्यते ।
तथा ददृशे अदर्शि अज्ञायि । जनैरिति शेष: । दृशिर् कर्मणि -
लिट् । सूर्यो महता वेगेन समुद्र पतितः इति तद्वेगातिशयेन समु
 
समुच्च