This page has not been fully proofread.

सप्तमसर्गः
 
इति भ्रमः भ्रान्तिः । सः कर्म । अकारि अकृत व्यतनुत तादृश
भ्रान्ति जनयामासेत्यर्थः । डु कृञ् – कर्मणि लुङ् । अत्र पश्चिम
दिशि संजातोऽरुणिमा अस्तमयमानस्तां दिशं प्रत्यस्ताद्रौ प्रस्थितस्य
सूर्यस्य रथ्यखुरघट्टनैः चूर्णीकृतानां गैरिकधातूनां परागैरुच्चालितै
जतं किमित्युत्प्रेक्षा । एवंविधारुणिम्नालङ्कता सायंसन्ध्या पश्चिम
दिवसतीमणिवृतारुणकञ्चक इति धियं जनयति । अतएव भ्रान्ति
मान् । गम्योत्प्रेक्षा चैतस्मिन्नरुणपाटवं संपादयन्ती कञ्चू कैर्भूयस्साम्यं
अत्र दिगङ्गना
संघटय्य पोषयत्यमुमित्यङ्गाङ्गिभावेनैतयोस्संकरः ।
स्वप्रियश्चन्द्रस्सम।गच्छत्यचिरादेवेत्यात्मानं वासोलङ्कारेण भूषयित्वा
 
तदागमनं प्रतीक्षत इति वासकसज्जिका । अस्याः लक्षणमित्यमुक्तं
 
दशरूपके
 
"
-
 
मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये " इति ।
वर्णितेति
क्षणमकारि ' इत्यनेन सन्निहितराविसमागमा संध्याव
•सा चात्यन्तमा रुण्यवतीति च ज्ञायते ॥
 
सान्ध्य मेघान्वर्णयति
 
(
 
-
 
427
 
वियति व्यरुचन् पयोधराः
स्फुट सन्ध्यापरिपाटलत्विषः ।
अचिरावतरद्विभावरी
पदलाक्षापटलानुकारिणः ॥
 
21
 
वियतीति ॥ स्फुटा अभिव्यक्ता विस्पष्टं प्रकाशमाना सन्ध्या
 
सन्धा सन्ध्याकालः ।
 
• तया परितः सर्वतः
 
' सन्ध्या पितृप्रसुस्सन्धा' इति शब्दार्णवः ।
कान्तयः येषु ते
 
पाटला: रक्तवर्णाः त्विषः
 
तथोक्ताः । तथाविधाः पयोधरा मेघाः सान्ध्यमेघाः । कर्तारः। सन्ध्यायाः
रक्तवर्णत्वात्तदानींतना मेघा अपि रक्तवर्णास्संपद्यन्त इत्येवमुच्यते ।
अतएव 'सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः' इति मेघः ।
अचिरात् अविलम्बितम् शीघ्रमेवेत्यर्थ: । अवतरन्ती प्रादुर्भवन्ती समा