This page has not been fully proofread.

सप्तमसर्गः
 
तद्वदित्यर्थः । '' तेन तुल्यं क्रिया चे' दिति
 
परस्परं संयुज्यमानानि संकोचन्तीति यावत् ।
 
( पद्म )
 
तुल्ये'
 
कवाटः इति हैमः ।
 
"
 
पत्राणि । तान्येव अरय कवाटी । 'अथ त्रिषु कपाटमररं
इत्यमरः । इदन्तोऽप्ययम् ।' अररम् पुनः कपाटोऽररि
 

 
अतएव "प्रेयंन्तेऽमी परमररयो हर्म्यवाताय
नाना' मिति कप्पणाभ्युदयकार: । ऋ गतौ - 'सर्वधातुभ्य' इत्यौ
णादिक इन्। अतएव 'कृदिकारादक्तिन' इति पक्षे ङीष् च । तयोः
पुटम् आच्छादनम् बन्धनम् यस्मिन् तथोक्तम् । तथाविधम् नलि
नम् पद्मम् । कर्म । 'वा पुंसि पद्म' नलिन' मित्यमरः ।
इन्दिरा लक्ष्मीः (लक्ष्मीसंपदोरैक्यम्) संपत् ' इन्दिरा लोकमाता मा
 
तदेव
 
.
 
वतिः ।
 
घटमानानि
 
तथाविधानि दलानि
 
अधिपङ्कज़कोशमादधे
बहिरालीनमधुव्रतच्छलात् ।
मधुसौरभरक्षणोत्सुका
दिनलक्ष्मीरिव लक्ष्म जातुषम् ॥
 
428
 
रमा मङ्गलदेवता' इत्यमरः । तस्याः आस्पदम् स्थानम् तदाश्रय
' आस्पदं प्रतिष्ठाया ' मिति साधुः । मन्दिरम् गृहम्
 
,
 
इत्यर्थः ।
 
लक्ष्मीनिवासभवनम् ( राज्ञः ) कोशागारमिति यावत् । लक्ष्म्याः पद्मा
लयत्वाल्लक्ष्मीशोभयोरैक्यस्य कविसमयसिद्धत्वाच्चैवमुक्तिः । तम् परितः
तस्य समन्तात् । 'अभितः परित' इति द्वितीया । तमभिव्याप्य ।
तस्य सर्वतो भ्राम्यन्निति भावः । निक्वणन् भृशं कूजन् । अन्यत्र
उच्चैराक्रोशन् । परिपालयति स्म अरक्षत् । 'लट् स्म' इति लिटो
ऽपवादो लट् । संकुचन्ति सरोजानि । तत्र मधु पातुमलब्धावकाशा:
मण्डलीकरणेन तदभितो झंकुर्वन्तो भ्रमन्ति भ्रमराः । यथा यामिका
अण्डालादयः प्रतियामं बद्धकवाटं धनागारं रक्षन्तः प्रहरेषूच्चराको
शन्तस्तदभितश्चरन्तीत्युपमार्थ: । अत्र दलेषु कपाटत्वाद्यारोपस्साम्य
संपादनेन चरितार्थस्सन्नुपमामुपवृ हयतीति रूपकानुप्राणितोपमालङ्कारः ॥
 
18 11