This page has not been fully proofread.

422
 
मधुराविजये
 
पतितत्वम् । एतयोरेको ग्रहराट् । अपरः पक्षिराडिति द्वावप्येती खग
राजौ । एतत्खगपतनं खगानामेतेषामतिभयसंधायकमभवत् । अत इमे
ह्यात्मत्राणाय तत्पतन हेतुभूतं विष्णुपदातिलङ्घनं विहाय स्वनिवासेषु
प्रविश्य निश्शब्दं स्थिता इति श्लोकार्थः । आहाराय दिवा तत्र तत्र परि
भ्रम्य सूर्यास्तमये स्वकुलायप्रवेशः, तत्र निश्शब्दस्थितिश्च पक्षिणां स्व
भावः । स एवेत्थं वर्ण्यते कविना स्वप्रौढोक्त्या । अत्र पक्षिणां कुलाय
प्रवेशे निश्शब्दस्थितौ वा भीतिर्न हेतुः । तथापि हेतुत्वसंभावना
तस्या इति गुणस्वरूपोत्प्रेक्षेयम् । एषा च श्लेषमूलातिशयोक्तिसमुज्जी
वितेति तथा साक़ संकीर्यते । पुरा कदाचिद् गरुत्मान् मणिनाग इति
नागकुमारं शेषतनयं भक्षितुं प्रवृत्तः । स च शिवभक्त इति शिव
संदिष्टो हरिर्न तं भक्षयेति गरुडमनुशशास । एवमनुशिष्टोऽपि भग
वता वैनतेयस्तदाज्ञां तृणाय मत्वा भक्षयामास तं नागकुमारम्
तेन कुपितेन विष्णुना शप्तः पतितो भूत्वायं सत्त्वहीनतामवाप ।
ततशिवानुग्रहेण गौतम्यां स्नात्वा ! निज़पापाद्विमुक्तः पुनस्सत्त्वमवापेति
 

 
ब्रह्मपुराणगाथात्रानुसंधेया ॥
 
अस्तमिते सूर्ये पद्मसंकोचं वर्णयति
 
घटमानदलाररीपुटं
 
-
 
नलिनं मन्दिरमिन्दिरास्पदम् ।
 
परिपालयति स्म निक्वणन्
 
परितो यामिक़वन्मधुव्रतः ॥
 
11 17 11
 
घटमानेति ॥ मधु व्रतं भक्ष्यणीयं यस्य । मधुव्रतः भृङ्गः ।
 
मधुपायीति च गम्यते ।
 
इत्यमरः। सः कर्ता । यामेषु भव: यामिकः । प्रहरचारी आरक्षक
'मधुव्रतो मधुकरो मधुलिण्मधुपालिनः '
 
तेन तुल्यम् यामिकवत् ।
 
यामिको यथा धनागारं परिपालयति