This page has not been fully proofread.

सप्तमसर्गः
 
स्खलितातपलेशमायतै
विटपिच्छायशतैर्वृ तं जगत् ।
भयविद्रवदसैनिकं
 
1
 
14
 
419
 
तिमिरैः क्रान्तमिवैक्ष्यत क्षणम् ॥
 
"
 
स्खलितेति ॥ स्खलिताः संचलिता: आतपलेशा: अल्पप्रकाशाः
यत्र कुल
यस्मिन् तथोक्तम् । 'प्रकाशो द्योत आतप ' इत्यमरः ।
चित् स्थितं वा नवेति संदिह्यमानया सूर्यकान्त्या युतमित्यर्थः ।
अतएव आयतैः दीर्घं। विटपिनाम् वृक्षाणाम् छाया अनातपः विटपि
च्छायम् । छाया बाहुल्ये' इति नपुंसकता । तेषाम् शतानि अन
न्तानि असंख्याका वृक्षच्छाया इत्यर्थः । तैः वृतम् आवृतम् आक्रान्तम्
जगत् भूतलम् । 'एकं महाभूतं पृथिवी । पञ्च महाभूतेन्द्रियविषया
त्मकं तु जगत् इति विवेकः । कर्म । क्षणम् अल्पकाले इत्यर्थः ।
4 कालाध्वनो' रिति द्वितीया । भयं भीतिः प्राणांस्त्यक्ष्याम इति मानस
 
आवेगः ।
 
तेन विद्रवन्तः शीघ्रं गच्छन्तः धावन्त इति यावत् ।
 
तथाविधाः अर्कसैनिकाः सूर्यसैन्याः । 'सेनायां समवेता ये सैन्यास्ते
सैनिकाच ते इत्यमरः । ते यस्मिन् तथोक्तम् । तथाविधं सत् ।
तिमिरैः अन्धकारैः । परराजैरिति गम्यते । कर्तृभिः । क्रान्तम् आ
न्तम् । वशीकृतमिति गम्यते । इवेति संभावनायाम् ।
 
मित्यर्थः ।
यथा कश्चन शात्रवो राजा सम्राजं कंचन
 
तद्वत् स्थित
प्रवासिनं
 
विदित्वा तद्राज्याक्रमणाय सैनिकानसंख्याकान् प्रेषयति । ते च तद्र
क्षकान् परसैनिकान् विद्राव्य तद्राष्ट्रमाक्रमन्ते परसैन्यानि च स्वप्राण
रक्षणाय तत्र तत्र निलीय द्रुततरमन्तर्दधति तद्वदिति भावः । अत्र
च स्वरूपोत्प्रेक्षायां पूर्ववाक्यार्थी हेतुभावमापन्नस्समर्थनीयमर्थं समर्थप्रतीति
· वाक्यार्थं प्रति वाक्यार्थहेतुकं काव्यलिङ्गम् । एतच्चोत्प्रेक्षया साकं
 
संकीर्यते ॥