This page has not been fully proofread.

सप्तम सर्गः
 
पतया लुपतङ्गमण्डल
क्षरदंगूत्कररञ्जिताकृतिः ।
मधुकैटभरक्तलोहिता
 
सुदधिः प्राप पुरातनीं दशाम् ॥
 
(
 
11
 
पतयात्विति ॥ उदधिः समुद्रः । कर्ता । पतयालु पातुकम्
 
पतयालुस्तु
 
(
 
-
 
12
 
पतनशीलम् दिने दिने ( स्वस्मिन् ) पतदित्यर्थः ।
 
पातुके ' इत्यमरः ।
 
'स्पृहिगृहिपतिदयानिद्रातन्द्राश्रद्धाभ्य
 
इत्या
 
लुच् । पतङ्गस्य सूर्यस्य पतङ्गश्शलभे शालिप्रभेदे पक्षिसूर्ययोः ।
 
&
 
बिम्बम् सूर्यबिम्ब
 
प्रवहन् अविच्छिन्नतया बहिनिर्गच्छन्
 
क्लीबं सूते' इति मेदिनी । तस्य मण्डलम्
मित्यर्थः । तस्मात् क्षरन्
अंशुत्कर: किरणपुञ्ज: 'पुञ्जराशी तूत्करः कूटमस्त्रियाम् ' इत्यमरः ।
तेन रञ्जिता आरुण्यं प्रापिता । रञ्ज रागे ण्यन्तात्कर्मणि क्तः ।
" रज्यति त्रीणि रजति लोहितायति चात्मने । शोणतीति च रञ्जिम्नि "
इति भट्टलः । तादृशी आकृतिः आकार: ( निज ) रूपम् यस्य
तथा भूतस्सन् । स्वस्मिन् प्रविष्टाभिस्सूर्यकान्तिभिर्लोहितमूर्तिभूत्वेत्यर्थः ।
मधुकैटभयोः तदाख्ययोः राक्षसयोः रक्तम् रुधिरम् ' रुधिरेऽसृग्लोहि
तास्ररक्तक्षतजशोणितम् ' इत्यमरः । तेन लोहिताम् रक्तवर्णाम् ।
पुरातनीम् पूर्वकालभवाम् पूर्व संप्राप्ताम् । ( 'सायंचिरमिति ट्युः ।
ङीय् ' ) दशाम् अवस्थाम् स्थितिम् तादृशीं स्थितिमित्यर्थः । ताम्
प्राप अलभत । तादृश्या दशायाः इदानीं प्राप्तुमशक्यत्वात्सादृश्या
क्षेपोऽत्रेति पदार्थनिदर्शनालङ्कारः । सूर्यस्य समुद्रप्रवेशादभितो व्याप्ता
सूर्यकान्तयो रक्तमयमिव समुद्रमकुर्वन् । अतोऽयं समुद्रः पुरा विष्णु
 
कृतोऽर्थः । 'पतयाल्वि ' त्यादिपदार्था विशेषणगत्या हेतुताभाजोऽत्रेति
[संहृतमधुकैटभरक्तरञ्जिततदानीन्तनसमुद्र इव स्थित इदानीमिति पिण्डी
लब्धसत्ताकं काव्यलिङ्गं परिपोषकमस्याः । अतस्तेन साकमियं संकी
 
417
 
"