This page has not been fully proofread.

416
 
मधुराविजये
 
उदपाद्यत कालकुञ्जरो
इलिताहर्दुमशाखिका भ्रमः ॥
 
उदधाविति ॥ उदधौ समुद्रे पतितस्य निपतितस्य तत्र प्रवि
ष्टस्येत्यर्थः। 'उदन्वानुदधिस्सिन्धुः इत्यमरः । तथाविधस्य आस्वतः
सूर्यस्य । खे आकाशे वर्तितुम् स्थातुम् शीलमेषामिति णिनिः ।
आकाशव्यापिभिरित्यर्थः । कतिभिः परिच्छेदस्वभावसंख्यावद्भिः गण
यितुं शक्यैः। 'किमस्संख्यापरिमाणे इति च' इति इतिः । चिदि
त्यसाकल्ये । असमग्रैः 'असाकल्ये तु चिच्चन इत्यमरः । तादृशैः
 
किरण: मयूखैः कैश्चन किरणैरिति यावत् ।
काल: समयः 'कालो दिष्टोऽप्यनेहापि समयः' इत्यमरः । स एव
तैः प्रयोजककर्तृभिः ।
कुञ्जरः गजः दुनिवारप्रवृत्तिमत्वादुभयोरेवमुच्यते
। तेन उद्दलितः
 
स्वार्थे कः )
 
वृक्षांशाः — शखा
 
विदारितः भेदितः । अह दिनम् तदेव द्रुमः वृक्षः तस्य शाखिका:
( शाखा एव शाखिका: ।
वेदांशे भुजे पक्षान्तरेऽन्तिके ' इति हैमः । ता इति भ्रमः भ्रान्ति उदा
शखा द्रुमांशे
द्यत समुदपादि उत्पादितेत्यर्थः । उत्पूर्वात् पद गतौ इत्यस्माण्ण्यन्ता
त्कर्मणि लङ् । अस्तं गच्छन् सूर्यः पश्चिमसमुद्रे प्रविशति तदानीं
केचन किरणास्तस्य व्योम्नि प्रसरन्ति । परमेश्वरस्वरूपिणः कालस्य
नियोगेन दिवसो नष्ट: । तस्मिन्नष्टेऽपि तदीयाः किरणा: केचन तव
भान्ति । कालनियोगस्य दुनिवारप्रसरत्वेन स गज इति इदानीं
भग्नो दिवस: पूर्वमनन्तैः कान्तिकिरणैर्नभो व्याप्य स्थित इति शाखोप
शाखाभिर्युतो वृक्षस्त इति कालनियोगेन च तदपगम इति कुञ्जर
दलितवृक्षस्स इति शिष्टास्तदंशभूताः कान्तयस्तादृग्वृक्षांशाश्शाखा इति
 
सुष्ठु युज्यते भ्रान्तिरत्रेति
 
भ्रान्तिमानलङ्कारः ।
 
क़ालकुञ्जरेत्यादि
 
रूपणं च भ्रान्तिप्रयोजकमिति रूपक भ्रान्तिमतोरङ्गाङ्गिभावेन सङ्करः ॥