This page has not been fully proofread.

सप्तमसर्गः
 
परस्परं वियोगः तस्मात् व्यथा तज्जनितं दुःखम् तेन आतुरै:
पीडितैः । वियोगसंभावनया भृशं दुःखितैरिति भावः । अतएव चलत
इति चलौ कम्पमानौ भयादित्यर्थः । सर्वाङ्गवेपथुश्चानेन द्योत्यते ।
तादृशौ चश्च त्रोटी नासापुटावित्यर्थः । ताभ्याम् पतन्तः गलन्तः
अधो गच्छन्तः बिसाङ्कङ्कुराः मृणालनवोद्गमाः येषु तैः । भक्षणार्थं
मुखेन नवमृणालानि परिगृह्य हठाज्जातसंभ्रमेण वैवश्यमापन्नेषु तेषु
तन्मुखेभ्यः पतन्ति तानि स्वयमेवेति भावः । अनेन सर्वाङ्गवेपथुर्वैचि
त्यमित्यनुभावौ स्तम्भाख्यस्सात्त्विकभावस्त्रासावेगसम्मोहसंभ्रमजाड्यादय
 

 
415
 
स्संचारिणश्च सूच्यन्ते ।
 
किञ्च दिननाधः सूर्य: तस्मिन् अर्पिता
दृष्टयः वीक्षणानि
 
निक्षिप्ताः दीना: अनुद्धताः दयनीयाः कृपणा:
यैः लैः। सूर्योऽस्मेति रात्रिरायाति रात्रौ च विरह इति संभवदरि
•ष्टागमशङ्ख्या विगतहर्षाः भवत्पुनरागमः कदा पुनरस्माकं समागमः
 
कदा भोरिति शोचन्तस्तं पश्यन्तीति वैवर्ण्य मनुभाव: । दैन्यं ग्लानि
धृतिरुन्माद इत्येवं संचारिणश्च सूच्यन्ते । एतादृग्विधैः अभूयत अभावि
अजनि । भूधातोः भावे लङ् । अत्र
 
भयानको रसः । तस्य च
 
लक्षणं त्वेव
 
स्थायी भयम् । स च पूर्वोक्तस्त्रासदेन्योन्मादसंभ्रमादिभिस्संचारिभिः स्तम्भ
वैवर्ण्यादिसात्त्विकैस्सर्वाङ्गवेपथुदैन्याद्यैरनुभावै: रसपरिपोषकसाधनैस्समु
ल्लासितस्स्वादुतां भजन् रसतामायाति । भयानकस्य
मुक्तम् – " विकृतस्वरसत्त्वादेर्भयभावो भयानकः । सर्वाङ्गवेपथुस्वेदशोक
वैवर्ण्यलक्षणः । दैन्यसंभ्रमसम्मोहत्रासादिस्तत्सहोदर : " इति । तिर्यगादेः
रसानुभूतिर्नास्तीति रसस्य तिर्यगालम्बनं रसाभासं मन्यन्ते केचित् ।
अत्र विद्याधर: "विभावादिसंभवो हि रसं प्रति प्रयोजको
विभावदिज्ञानम् । ततश्च तिरश्चामप्यस्त्येव रस
 
इति ॥
 
उदधौ पतितस्य भास्वतः
कतिभिश्चितिकरणः खर्वातभिः ।
 
"