This page has not been fully proofread.

414
 
दिवसान्तनटस्य धूर्जटे
 
विदधे काञ्चनतालविभ्रमम् ॥
 
मधुराविजये
 
11 9 11
 

 
चरमेति ॥ चरमाम्बुधि: पश्चिमसमुद्रः तस्य वीचयः तरङ्गाः
तैः चुम्बितानि स्पृष्टानि प्रतिविम्बानि प्रतिच्छायाः तानि आश्रयितुं
शीलमस्येति णिनिः ।
पश्चिमसमुद्रत रङ्गप्रतिविम्वितमिति यावत् ।
तादृशम् रवे: मण्डलम् सूर्यबिम्बम् ' मण्डलं देशविम्बयो: ' इति सुधा ।
तरङ्गाः हस्ता इत्र भान्तीति तत्संस्पर्शो मण्डलस्य हस्तवृतत्वं संपादयतीति
ज्ञायते । तत् कर्तृ । दिवसान्तः सायंकालः तस्मिन् नटस्य नाटयमाचरितुः
धूर्जटे: शिवस्य । 'कृशानुरेतास्सर्वज्ञो धूर्जटिर्नीललोहितः
तस्य काञ्चनताल: सुवर्णनिमितो वाद्यविशेषः ( तालखण्ड: )
 
इत्यमरः ।

 
इति विभ्रमः भ्रान्तिः । सूर्यबिम्बस्य वर्तुलत्वाल्लोहितत्वाच्चैवमुक्तिः ।
• विभ्रमो भ्रान्तिहावयोः' इति सुधा विदधे वितेने अकरोत्
जनयामांस पश्यतां जनानामित्यर्थः । उद्धृतं परिभ्रमति समुद्रे तस्मिन्
प्रतिविम्बितं तरङ्गसम्मिलितमरुणं सूर्यमण्डलम् दृष्ट्वा प्रदोषे ताण्डव
 

 
माचरतो धूर्जटेर्हस्तसंपृक्तं सुवर्णतालखण्डमिदमिति प्रजा
भ्रान्तिमानलङ्कारः ॥
 
बभ्रमुरिति
 
संध्याकालो वर्ण्यते
 
-
 
चलचञ्च
पतद्विसाङ्करै
दिननाथापित दीनदृष्टिभिः ।
रजनीविरहव्यथातुरै
रथ चक्राह्वयुग़रभूयत ॥
 
,
 
10 II
 
चलदिति ॥ अथ अनन्तरम् अस्तमिते सूर्य इत्यर्थः ।
ह्वयुगैः चक्रवाकमिथुनैः । कर्तृभिः । रजनी
 
रात्रि: तस्यां
 
चक्रा
 
विरह'