This page has not been fully proofread.

व्याख्यास्वरूपम्
 
श्री गङ्गादेव्या विरचितस्य मधुराविजयमहाकाव्यस्य नवसर्गात्म
कस्य व्याख्येयम् । भावप्रकाशिकेत्यस्या नाम कवयित्रीहृदयगतानां
भावानामभिव्यक्ती बहु प्रायततेयं टीकेत्यर्थवतीयं संज्ञा । समन्वय
मुखेनैव प्रवर्तितेयं मया मल्लिनाथादिमहासूरिप्रक्षुण्णेन पथा । अपे
क्षितविषयबोधने भवत्यतिसंक्षेपो दुरवगाहायेति स मया नादृतः ।
अनवस्था संभवेदिति शाखाचङ्क्रमणं च न कृतमत्र । नातिसंक्षेपो
नातिविस्तर इत्येतयोर्मध्ये मार्गः कश्चन परिगृहीतोऽर्थदर्शनेऽस्मिन्मया ।
मल्लिनाथवदेवात्र पुरतस्सप्रमाणं भावविवरणमर्थ विवरणं च संक्षेपत:
कृतम् । तदनु सारांश इति पिण्डीकृतोऽर्थ इति तात्पर्यार्थ इति
परमार्थ इति यथोचितव्यवहारेण ते ते विषया वक्तव्याः पूर्वमुदिता
अनुदिता: क्वचिद्वयङ्गयार्थादयश्चाऽपि विषयान्तरसंस्पर्शेन नीता ऐक
मुख्यं पाठकसौलभ्याय विषयवैशद्याय नातिविस्तराय च प्रायशोऽव
साने । इतिहासपुराण महाकाव्यधर्मशास्त्रमन्त्रशास्त्र रत्नशास्त्रगजशास्त्र
संगीतशास्त्रकलाशास्त्रदण्डनीत्यादयस्तत्तत्संदर्भेषूदाहृत्य सम्यवपरि
शौलिता यावदपेक्षम् । कविसमयाश्च प्रदर्शिता अवश्यंभाविनोऽप्रति
पत्तिस्थलेष्वेव ससाकल्यं तत्र तत्र । प्रायश: प्रतिश्लोकमर्थालङ्काराः
क्वचिच्छब्दालङ्काराच व्याख्यातृसंप्रदायानुसारेण सलक्षणसमन्वयं प्रति
पादिता आवश्यकस्थलेषु चर्चापुरस्सरं च । तत्र तत्र व्याकरणांशा
अश्रुतपूर्वास्समवलोडिता आवश्यकतामनुसृत्य महाभाष्यादिबहुग्रन्थपरि
शोधनेन । पदव्युत्पत्तिश्च बाहुल्येन विशिष्टार्थसंपादनाङ्गतयैव दर्शिता
सप्रमाणं ससंक्षेपं ग्रन्थविस्तर भिया । तिङन्तानां तिङन्तान्येव पर्याय
तथा प्रदीयन्तेऽस्यां व्याख्यायां प्रायः पदस्य पदस्य पर्यायवाचकानि
र्श्यन्ते नियमेन । अपपाठसाधुपाठनिर्णयश्च कृतोऽस्यामुचितानुचित