This page has not been fully proofread.

410
 
मधुराविजये
 
मद: मद्यम्
 
उज्झितम् परित्यक्तम् अम्बरम् आकाशः तदेव अम्बरम्
वस्त्रम्
परिवानं येन तथोक्तः । 'अम्बरं व्योति वाससि ' इत्यमरः ।
तथाविधस्सन् । प्रचेता वरुणः । स एव प्रकृष्टहृदयः महात्मा इति
च गम्यते । 'प्रचेता' पाशिनि मुनौ ना प्रकृष्टहृदि त्रिपु इति
सुधा तस्य दिशम् आशाम् पश्चिमदिशमित्यर्थः । तामेव वनिता

मिति गम्यते । स्पृशति स्म अवममर्श स्पृष्टवान् ।
मद्यपानमित्यर्थः ।
क़स्य कस्य वा जनस्य । विकार: कामोदयादि
रूपा मनोविक्रिया तस्य
जनस्य भवत्येवेति भावः । अत्र पद्मोदरभागो मद्यभाजनमिति तत्र
कारणम् हेतुः न न भवति । सर्वस्यापि
स्थितं मधु मद्यमिति तत्र सूर्यकिरणप्रसार : हस्तप्रसार इति तेन च
मकरन्दशोष: सूर्यकृतमद्यपानमिति अस्तमये सूर्यस्य नभः परित्यज्य
गमनं सूर्यस्य मुक्तवस्त्रतेति सूर्यकिरणानां तत्समये पश्चिम दिशा
व्यापनं वरुणकान्तास्पर्श इति कविप्रौढोक्तिः । मधुपानप्रमत्तता लोके
मधुपायिनमकृत्येषु प्रवर्तयति । तस्यायं प्रकृतिसिद्धो गुण इति कस्यापि
 
तस्य दुनिवारत्वात्सूर्ये भगवत्यप्येवं संभाव्यत इति भावः ।
 
दिशमित्यादौ वनितात्वारोप आर्थिक इत्येकदेशविवर्तिरूपकम् ।श्लिष्ट
'न मदः कस्य विकारकारण 'मित्यर्था
 
रूपकं च करैरित्यादौ ।
 
न्तरन्यासो भगवति सूर्येऽध्येवं संभवत्येवेत्युत्प्रेक्षाजीवातुरभवत्सामान्य
 
विशेषभावेन । अत एवानथोरङ्गाङ्गिभावेन संकरः ।
 
भारविरप्येता
 
दृशे प्रस्तावे "अंशुपाणिभिरतीव पिपासु पद्मजं मधु भृशं रस
यित्वा क्षीबतामिव गतः क्षितिमेष्यन् लोहितं वपुरुवाह पतङ्गः
 
इत्याचष्ट ।
 
1
 
प्रथमां हरितं प्रभाकरो
विरहय्यात्मनि तापमाप यम् ।
अपरामुपग़म्य तं जहाँ
 
हृदयं कः खलु वेत्ति रागिणाम् ॥
 
11 6 11
 
अत्र