This page has not been fully proofread.

सप्तमसर्गः
 
अन्तर: परिधानीयस्वीय
 
अन्तराशब्दस्य विनार्थकत्वमपि सुप्रसिद्धम्
बाह्येषु वाक्यवत् । अन्तरात्मनि पुंस्येष विनार्थेऽव्ययमन्तरा' इति
नानार्थरत्नमाला । मदः मद्यम् तेन लोहिनिका तदास्वादकृतं लौहि
त्यम् । ताम् मद्यपानसंजातरक्तवर्णवत्तामित्यर्थः । लोहितशब्दात् 'वर्णे
चानित्य' इति कन् । 'वर्णादनुदात्ता' दिति पक्षे ङीप् । तत्सन्नि
योगेन तकारस्य नकारादेशश्च । ( ताम् ) उपावहन् अबिभ्रत अल
भन्तेत्यर्थः । अहो इत्याश्चर्ये । मद्यपानाद्यादृशी रक्तता तादृश्येव तद्वि
नापि सूर्यकिरणसंपर्केण संजातेदानीमिति विस्मय इति भावः । अत
एव कारणं विनापि कार्योत्पत्तिरिति विभावनालङ्कारः। "विभावना
विनापि स्यात्कारणं कार्यंजन्म चे" दिति तल्लक्षणात् । मद्यपानेन
रक्तवर्णता शरीरस्य । तत्रापि विशेषतः कपोलयोर्जायत इति महा
कवयो वर्णयन्तु – "गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाश्चित
दृशां प्रतिमेन्दुः । पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलक़ाकृति
रासीत् "
राग़कान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । सर्व
ग़ापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः " इत्यादिना ॥
 
6
 
कमलोदरसंभृतं कर
मधु पीत्वा रविरुज्झिताम्बरः ।
स्पृशति स्म दिशं प्रचेतसो
 
न मदः कस्य विकारकारणम् ॥
 
मधु मद्यम् ।
 
-
 
"
 
409
 
"
 
कमलस्य पद्मस्य उदरम्
 
कमलेति ॥ रविः सूर्यः । कर्ता ।
कुक्षिः अन्तर्भागः ।
 
तदेव भाजनमिति गम्यते । तस्मिन् संभृतम्
 
"
 
सुष्ठु धृतम् परिपूर्णमित्यर्थः । कराः किरणाः त एव हस्ताः । बलि
'हस्तांशवः कराः' इत्यमरः । ते करणभूतः । मधु पुष्परसः स एव
 
अर्ध
 
1
 
11
 
मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः ।
 
र्चादिगणे पाठात्पुंनपुंसकयोर्मधुः इति विश्वः तम् पीत्वा निपीय ।