This page has not been fully proofread.

सप्तमसर्गः
 
अश्वाः
 
अनेन
 
रयेण जवेन वल्गिताः रयवल्गिताः । तथाविधाः वाहाः
यस्य तथोक्तः ।
महता रयेण प्रयातस्सन्निति भावः ।
परोपकृतिव्यग्रतास्य सूच्यते । पश्चिमम् प्रतीचीदिशि स्थितम् पयसां
राशिम् अम्बुराशिम् समुद्रम् पश्चिमसमुद्रमित्यर्थः । तम् अवाप प्राप ।
अस्ताचलसमीपस्थे पश्चिमाम्भोधौ निममज्जेत्यर्थ: । महान्तः परोपकृतये
प्राणोपद्रवकराण्यपि कार्याणि कुर्वन्तीति भावः । अत्र पश्चिमसमुद्र
प्रवेशे सूर्यस्थ ऊष्मप्राप्तिर्वस्तुतो न फलम् । तस्य फलत्वसंभावना
वेति फलोत्प्रेक्षेयम् ।
 
त्प्रेक्षा
 
अपसर्पणसंभ्रमच्युतं
दिनलक्ष्म्यास्तपनीयकुण्डलम् ।
रविमण्डलमाशशङ्करे
वरुणान्तःपुरवामलोचनाः ॥
 

 
अपसर्पति । वरुणस्य वरुणदेवस्य जलाधिष्ठानदेवतात्मनः ।
 
अन्तःपुराणि · स्त्र्यगाराणि । 'स्त्रयगारं भूभुजामन्तःपुरं स्यादवरोधनम् ।
शुद्धान्तश्चावरोधश्च ' इत्यमरः । तस्य वामलोचनाः । वनिताः तस्थाः
कान्ताः । आधाराधेयभाव एव संबन्धत्वेन षष्ठ्यर्थः । वरुणराजान्तःपुर
कान्ता इत्यर्थः । रविमण्डलम् सूर्यबिम्बम् समुद्रप्रविष्टमित्यर्थः । दिनम् अहः
तदेव लक्ष्मी: रमा । लक्ष्मीशोभयोरैक्यादेवमुक्तिः । तस्याः अपसर्प
णम् निवर्तनम् तस्मिन् संभ्रमः त्वरा संभ्रमो वेगहर्षयोः '
मरः । तस्मात् च्युतम् स्रस्तम् । तपनीयकुण्डलम् काञ्चनमयताटङ्कः ।
वर्तुलत्वादरुणत्वाच्चैवमुक्तिः । उत्तमसुवर्णस्यारुणत्वमिति कविसमयः ।
तत् आशशङ्किरे संभावयामासुः । स्त्रीणां भूषणप्रियत्वादेवं संभावना
 
इत्य
 
तास्वौचित्यं पोषयति ।
 
दिवसलक्ष्मीधृतः कनकताटङ्कस्स्वनि वासाय
 
वेगेन धावन्त्यास्तस्याः कर्णाद् भ्रष्टोऽभूत्तदेवेदं सूर्यमण्डलमिति स्वरूपो
 
दिवसश्रियः पद्म
 
अत्र बाणः
 
-
 
"
 
407
 
" ग़गनतलादवतरन्त्या
 
113 11