मधुराविजयम् /541
This page has not been fully proofread.
श्रीः
मधुराविजयम्
भावप्रकाशिकाख्यव्याख्यासमेतम्
सप्तमसर्ग:
एतन्नायकस्य संभोगशृङ्गारस्याङ्गतया तदुद्दीपकं चन्द्रोदयं वर्ण
यितुकामा क्रमानुसरणाय सूर्यास्तमयादि प्रकथयति । तत्र चाष्टाभि
श्लोकैरित आरम्य सूर्यास्तमयो वर्ण्यते –
-
अथ कम्पनरेन्द्र सुध्रुवां
मुखपद्मान्यनुहार्य पङ्कजैः ।
अपराधभियेव भानुमा
नपरक्ष्माधरकन्दरामगात् ॥
1 ll
अथेति ॥ अथ अनन्तरम् स्वेष्टदेवतामाराध्य समुचितकृत्येषु
राज्ञः प्रवृत्तेः समनन्तरमित्यर्थः । भानुमान् सूर्य प्रशंसायां मतुप् ।
प्रशस्तकिरणवान् । दीप्तिमानिति गम्यते । अतएव पद्मानाम् दीप्ति
दायकतास्योपपद्यते । 'भानूरश्मिदिवाकरौ'
इत्यमरः ।
सः कर्ता ।
कम्पनरेन्द्रस्य कम्पनप्रभो सुभ्रुवाम् सौन्दर्यवतीनाम् राजदाराणा
मित्यर्थ: । अनेन तासां मुखानाम् सौन्दर्यातिशयो गम्यते । (तासाम्)
मुखानि आननानि तान्येव पद्मानि तामरसानि पद्माया: (लक्ष्म्या :)
आश्रयभूतानि शोभायमानानि कृतसुकृतानि महान्ति इति ग़म्यते ।
तानि कर्म । पकर्दमे जायन्त इति पङ्कजानि (तामरसानि)
मलिनानि कान्तिशून्यानि पोपजन्मानि निकृष्टानीति गम्यते ।
पोऽघे
(