This page has not been fully proofread.

षष्ठसर्गः
 
निर्वर्त्य राजोचितव्यापारेषु संसक्तो दिनं निनायेति पिण्डीकृतोऽर्थः ।
एवं तृतीयपुरुषार्थस्य धर्माङ्गतामापादयन्ती सर्गमिममुपसंहरति कव
यिनी । अतएव च वृत्तभेदः । वृत्तं च शिखरिणी । लक्षणं तु
" रसैरुदैछिन्ना यमनसभलागरिशखरिणी " इति तल्लक्षणात् ॥
 
इति
 
श्रीगङ्गादेव्या विरचिते
 
मधुराविजयनाम्नि वीरकम्परायचरिते
वनविहारजलक्रीडावर्णनं नाम.
षष्ठसर्गः
 
इतीति ॥ सर्वं पूर्ववत् । वनविहारः उद्यानक्रीडा जलक्रीडा
सलिलविहार: तयोः वर्णनम् प्रकथनम् । नामेति प्रसिद्धौ । विरू
प्रवृत्तवनविहारसलिल क्रीडाभ्यां
 
"
 
सुविदित
 
पाक्षदेवताराधनाङ्गतया
 
इत्यर्थः । षष्ठः षट्संख्यापूरकः । 'षट्कतिपयचतुरा' मिति डटि
थुक् । अतएव ज्ञापकाड्डुट् । ( सर्गः काव्यभाग: । इति समाप्तः)
इति तु विशेषः ।
 
इति
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्र साहितीवैदुष्य
'साहित्यालङ्कार' 'विद्वत्कवीशान '
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
 
'काव्यकलानिधि ' 'महीनूरमहाराजास्थानमहाविद्वत्कवि
 
"
 
403
 
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्य व्याख्यया समलङ्कृतायाम्
 
श्रीगङ्गादेव्याः कृतौ मधुराविजये महाकाव्ये
जलक्रीडावनविहारप्रशंसा नाम
 
षष्ठसर्गः
 
*
 
"