This page has not been fully proofread.

23
 
"
 
रञ्जकता त्वनन्यादृशी । इत्थं बहुमुखेन प्रवृत्ता भावनाशक्तिसंमिलिता
रसानुगुणा एतदीयवर्णनास्सहृदयस्पृहणीया इति निवेदयामि । इत्थं
महाकाव्यमिदं सर्वतोमुखतया प्रवृत्तं सत् 'क्वचिदर्थः क्वचिच्छब्दः
क्वचिद्भावः क्वचिद्रसः । यतैते सन्ति सर्वेऽपि स निबन्धो न
 
लभ्यते
 
इति यदाख्यातीयं काव्यमुखे कवयित्री तन्न्यूनतां निरा
 
करोति नूनमिदं काव्यराजमिति सुष्ठु भणामि । एतादृशमहाकाव्यस्य
व्याख्याविरचन महाभाग्यं समुपलब्धं केनापि मत्पुराकृतसुकृतविशेषेणेति
तमभिनन्दामि मुहुर्मुहुः । अस्याः व्याख्या कृते रधिनाथो भूत्वा मत्कृति
निर्विघ्नं परिसमाप्य मामेतां च स्थापयामासाचन्द्रतारं भगवान् श्रिय
पतिर्वेङ्कटाचलपतिरिति तस्य परश्शतमभिवन्दनानि समर्पयामि कृता
ञ्जलिस्सप्रमोदमिति शिवम् ॥
 
8
 
9