This page has not been fully proofread.

402
 
मधुराविजये
 
स्वेष्टदेवतासमाराधनाप्रस्तावेन मङ्गलान्ततया सर्गमिमं परि
 
ततस्सैरन्ध्रीभिः कृतसमुचिताकल्परचनः
पुरन्ध्रीभिस्सार्धं समधिगतशुद्धान्तवसतिः ।
त्रयीगीतं तेजस्त्रिपुरहरमाराध्य विधिव
द्यथाहँर्व्यापारैर्नरपतिरहश्शेषमनयत् ॥
 
समापयति
 
11
 
69 11
 
इति ॥ नरपतिः राजा । पुरन्ध्रीभिः सार्धम् स्त्रीभिः
स्वमहिषीभिस्साकम् । समधिगता लब्धा संप्राप्ता शुद्धान्तवसतिः
अन्तःपुरनिवासः येन तथाभूतस्सन् । ततः अनन्तरम् अन्तःपुरप्रवेश
नोत्तरकाल इत्यर्थः । सैरन्ध्रीभिः शिल्पकारिकाभिः स्त्रीभिः । 'सैरन्ध्री
शिल्पकारिका ' इत्यमरः । ताभिः कृता विरचिता समुचिता अ
देवपूजायाः योग्या आकल्परचना अलङ्क तिकरणम् यस्मिन् तथोक्तः ।
 

 
परिचारिकाकृतदेवपूजासमुचितवेषयुतस्सन्नित्यर्थः । विधिवत् यथाविधि
 
शास्त्रमनुसृत्येत्यर्थः 1:1
'ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामचारतः
इत्यादिस्मृतिवचनतोऽन्यथाकरणे प्रत्यवायश्रवणादिति भावः ।
( एवं
भूतस्सन् ) त्रयी त्रयो वेदाः ऋग्यजुस्सामानि यस्यास्संह रिति विग्रहः ।
 
(
 
इति वेदास्त्रयस्त्रयी' इत्यमरः । ' द्वित्रिभ्या ' मिति तयपोऽयच् ।
' टिढ्ढ़े' ति ङीप् । तया गीतम् अभिष्टुतम् त्रिपुराणि लोहनिर्मि
 
तानि त्रीणि पुराणि । अत्र भारतम् -
त्रीणि वीर्यवतां दिवि । आयसं राजतं चैव सौवर्णं परमं महत्
" असुराणां पुराण्यासन्
इति । तेषाम् हरम् नाशकम् । त्रिपुरासुरदाहकमित्यर्थः ।
तेजः प्रकाशः स्वयंप्रकाशमानम् ब्रह्मेत्यर्थः । तथाविधम् विरू
• देवमिति यावत् । तत् । आराध्य संपूज्य यथाः यथोचितैः व्यापार:
 
तादृशम्
 
तत्तत्क्रियाभिः अहश्शेषम् शिष्टं दिनभागम् अनयत्
 
यापयामास ।
 
जलक्रीडाव्याजेन स्नात्वा माध्याह्निकपूजां विरूपाक्षदेवस्य यथाविधि
 
,
 
17